न॒व॒द॒शभि॑रस्तुवत शूद्रा॒र्य्याव॑सृज्येतामहोरा॒त्रेऽ अधि॑पत्नीऽ आस्ता॒म्। एक॑विꣳशत्यास्तुव॒तैक॑शफाः प॒शवो॑ऽसृज्यन्त॒ वरु॒णोऽधि॑पतिरासी॒त्। त्रयो॑विꣳशत्यास्तुवत क्षु॒द्राः प॒शवो॑ऽसृज्यन्त पू॒षाधि॑पतिरासी॒त्। पञ्च॑विꣳशत्यास्तुवताऽऽर॒ण्याः प॒शवो॑ऽसृज्यन्त वा॒युरधि॑पतिरासीत्। स॒प्तवि॑ꣳशत्यास्तुवत॒ द्यावा॑पृथि॒वी व्यै॑तां॒ वस॑वो रु॒द्रोऽ आ॑दि॒त्याऽ अ॑नु॒व्या᳖यँ॒स्तऽ ए॒वाधि॑पतयऽ आसन् ॥३० ॥
न॒व॒द॒शभि॒रिति॑ नवऽद॒शभिः॑। अ॒स्तु॒व॒त॒। शू॒द्रा॒र्य्यौ। अ॒सृ॒ज्ये॒ता॒म्। अ॒हो॒रा॒त्र इत्य॑हो॒रा॒त्रे। अधि॑पत्नी॒ इत्यधि॑ऽपत्नी। आ॒स्ता॒म्। एक॑विꣳश॒त्येक॑ऽविꣳशत्या। अ॒स्तु॒व॒त॒। एक॑शफा॒ इत्येक॑ऽशफाः॒। प॒शवः॑। अ॒सृ॒ज्य॒न्त॒। वरु॑णः। अधि॑पति॒रित्यधि॑ऽपतिः। आ॒सी॒त्। त्रयो॑विꣳश॒त्येति॒ त्रयः॑ऽविंशत्या। अ॒स्तु॒व॒त॒। क्षु॒द्राः। प॒शवः॑। अ॒सृ॒ज्य॒न्त॒। पू॒षा। अधि॑पति॒रित्यधि॑ऽपतिः। आ॒सी॒त्। पञ्च॑विꣳश॒त्येति॒ पञ्च॑ऽविꣳशत्या। अ॒स्तु॒व॒त॒। आ॒र॒ण्याः। प॒शवः॑। अ॒सृ॒ज्य॒न्त॒। वा॒युः। अधि॑पति॒रित्यधि॑ऽपतिः। आ॒सी॒त्। स॒प्तविं॑ꣳश॒त्येति॑ स॒प्तऽविं॑ꣳशत्या। अ॒स्तु॒व॒त॒। द्यावा॑पृथि॒वी इति॑ द्यावा॑पृथि॒वी। वि। ऐ॒ता॒म्। वस॑वः। रु॒द्राः। आ॒दि॒त्याः। अ॒नु॒व्या᳖य॒न्नित्य॑नु॒ऽव्या᳖यन्। ते। ए॒व। अधि॑पतय॒ इत्यधि॑ऽपतयः। आ॒स॒न् ॥३० ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर वह कैसा है, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनः स कीदृश इत्याह ॥
(नवदशभिः) दश प्राणाः पञ्च महाभूतानि मनोबुद्धिचित्ताहंकारैः (अस्तुवत) स्तुवन्तु (शूद्रार्यौ) शूद्रश्चार्य्यो द्विजश्च तौ (असृज्येताम्) (अहोरात्रे) (अधिपत्नी) अधिष्ठात्र्यौ (आस्ताम्) भवतः (एकविंशत्या) मनुष्याणामङ्गैः (अस्तुवत) (एकशफाः) अश्वादयः (पशवः) (असृज्यन्त) सृष्टाः (वरुणः) जलम् (अधिपतिः) (आसीत्) (त्रयोविंशत्या) पश्वङ्गैः (अस्तुवत) (क्षुद्राः) नकुलपर्यन्ताः (पशवः) (असृज्यन्त) (पूषा) पुष्टिकर्त्ता भूगोलः (अधिपतिः) (आसीत्) (पञ्चविंशत्या) क्षुद्रपश्ववयवैः (अस्तुवत) (आरण्याः) अरण्ये भवाः (पशवः) सिंहादयः (असृज्यन्त) (वायुः) (अधिपतिः) (आसीत्) (सप्तविंशत्या) आरण्यपशुगुणैः (अस्तुवत) (द्यावापृथिवी) (वि) विविधतया (ऐताम्) प्राप्नुतः (वसवः) अग्न्यादयोऽष्टौ (रुद्राः) प्राणादयः (आदित्याः) चैत्रादयो द्वादश मासाः प्रथममध्यमोत्तमा विद्वांसो वा (अनुव्यायन्) अनुकूलतयोत्पादिताः (ते) (एव) (अधिपतयः) (आसन्)। [अयं मन्त्रः शत०८.४.३.१२-१६ व्याख्यातः] ॥३० ॥