अ॒न॒ड्वान् वयः॑ प॒ङ्क्तिश्छन्दो॑ धे॒नुर्वयो॒ जग॑ती॒ छन्द॒स्त्र्यवि॒र्वय॑स्त्रि॒ष्टुप् छन्दो॑ दित्य॒वाड् वयो॑ वि॒राट् छन्दः॒ पञ्चा॑वि॒र्वयो॑ गाय॒त्री छन्द॑स्त्रिव॒त्सो वय॑ऽउ॒ष्णिक् छन्द॑स्तुर्य्य॒वाड् वयो॑ऽनु॒ष्टुप् छन्दः॑ ॥१० ॥
अ॒न॒ड्वान्। वयः॑। प॒ङ्क्तिः। छन्दः॑। धे॒नुः। वयः॑। जग॑ती। छन्दः॑। त्र्यवि॒रिति॑ त्रि॒ऽअविः॑। वयः॑। त्रि॒ष्टुप्। त्रि॒स्तुबिति॑ त्रि॒ऽस्तुप्। छन्दः॑। दि॒त्य॒वाडिति॑ दित्य॒ऽवाट्। वयः॑। वि॒राडिति॑ वि॒ऽराट्। छन्दः॑। पञ्चा॑वि॒रिति॒ पञ्च॑ऽअविः। वयः॑। गा॒य॒त्री। छन्दः॑। त्रि॒व॒त्स इति॑ त्रिऽव॒त्सः। वयः॑। उ॒ष्णिक्। छन्दः॑। तु॒र्य॒वाडिति॑ तुर्य॒ऽवाट्। वयः॑। अ॒नु॒ष्टुप्। अ॒नु॒स्तुबित्यनु॒ऽस्तुप्। छन्दः॑ ॥१० ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर भी वही विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(अनड्वान्) वृषभः (वयः) बलम् (पङ्क्तिः) (छन्दः) (धेनुः) दुग्धप्रदा (वयः) कामनाम् (जगती) जगदुपकारकम् (छन्दः) आह्लादनम् (त्र्यविः) त्रयोऽव्यादयो यस्मात्तम् (वयः) प्रजननम् (त्रिष्टुप्) त्रीणि कर्मोपासनाज्ञानानि स्तुवन्ति यया सा (छन्दः) (दित्यवाट्) दितिभिः खण्डनैर्निर्वृत्तान् यवादीन् वहति (वयः) प्रापणम् (विराट्) (छन्दः) आनन्दकरम् (पञ्चाविः) पञ्चेन्द्रियाण्यवन्ति येन सः (वयः) विज्ञानम् (गायत्री) (छन्दः) (त्रिवत्सः) त्रयः कर्मोपासनाज्ञानानि वत्सा इव यस्य सः (वयः) पराक्रमम् (उष्णिक्) यद् दुःखानि दहति तम् (छन्दः) (तुर्यवाट्) तुर्यान् चतुरो वेदान् वहति येन सः (वयः) (अनुष्टुप्) अनुस्तौति यया सा (छन्दः) सुखसाधकम्। अत्र पूर्ववत् मन्त्रत्रयप्रतीकानि लोकन्ता इन्द्रमिति लिखितानि निवारितानि। [अयं मन्त्रः शत०८.२.४.९-१५ व्याख्यातः] ॥१० ॥