वात॑स्य जू॒तिं वरु॑णस्य॒ नाभि॒मश्वं॑ जज्ञा॒नꣳ स॑रि॒रस्य॒ मध्ये॑। शिशुं॑ न॒दीना॒ हरि॒मद्रि॑बुध्न॒मग्ने॒ मा हि॑ꣳसीः पर॒मे व्यो॑मन् ॥४२ ॥
वात॑स्य। जू॒तिम्। वरु॑णस्य। नाभि॑म्। अश्व॑म्। ज॒ज्ञा॒नम्। स॒रि॒रस्य॑। मध्ये॑। शिशु॑म्। न॒दीना॑म्। हरि॑म्। अद्रि॑बुध्न॒मित्यद्रि॑बुध्नम्। अग्ने॑। मा। हि॒ꣳसीः॒। प॒र॒मे। व्यो॑म॒न्निति॒ विऽओ॑मन् ॥४२ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर विद्वान् पुरुष को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तेन किं कार्य्यमित्याह ॥
(वातस्य) वायोः (जूतिम्) वेगम् (वरुणस्य) जलसमूहस्य (नाभिम्) बन्धनम् (अश्वम्) व्याप्तुं शीलम् (जज्ञानम्) प्रादुर्भूतम् (सरिरस्य) सलिलस्योदकस्य। सलिलमित्युदकनामसु पठितम् ॥ (निघं०१.१२) कपिलकादित्वाद् रेफः (मध्ये) (शिशुम्) बालकम् (नदीनाम्) (हरिम्) हरमाणम् (अद्रिबुध्नम्) मेघाकाशम् (अग्ने) पावकवद्वर्त्तमान (मा) (हिंसीः) (परमे) प्रकृष्टे (व्योमन्) व्योम्नि व्याप्ते आकाशे। [अयं मन्त्रः शत०७.५.२.१८ व्याख्यातः] ॥४२ ॥