अ॒पां गम्भ॑न्त्सीद॒ मा त्वा॒ सूर्य्यो॒ऽभिता॑प्सी॒न्माग्निर्वै॑श्वान॒रः। अच्छि॑न्नपत्राः प्र॒जाऽ अ॑नु॒वीक्ष॒स्वानु॑ त्वा दि॒व्या वृष्टिः॑ सचताम् ॥३० ॥
अ॒पाम्। गम्भ॑न्। सी॒द॒। मा। त्वा॒। सूर्य्यः॑। अ॒भि। ता॒प्सी॒त्। मा। अ॒ग्निः। वै॒श्वा॒न॒रः। अच्छि॑न्नपत्रा॒ इत्यच्छि॑न्नऽपत्राः। प्र॒जा इति॑ प्र॒ऽजाः। अ॒नु॒वीक्ष॒स्वेत्य॑नु॒ऽवीक्ष॑स्व। अनु॑। त्वा॒। दि॒व्या। वृष्टिः॑। स॒च॒ता॒म् ॥३० ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर भी वही विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(अपाम्) जलानाम् (गम्भन्) गम्भनि धारके मेघे। अत्र गमधातोरौणादिको बाहुलकाद् भनिन् प्रत्ययः सप्तम्या लुक् च (सीद) आस्स्व (मा) (त्वा) त्वाम् (सूर्य्यः) मार्तण्डः (अभि) (ताप्सीत्) तपेत् (मा) (अग्निः) (वैश्वानरः) विश्वेषु नरेषु राजमानः (अच्छिन्नपत्राः) अच्छिन्नानि पत्राणि यासां ताः (प्रजाः) (अनुवीक्षस्व) आनुकूल्येन विशेषतः संप्रेक्षस्व (अनु) (त्वा) त्वाम् (दिव्या) शुद्धगुणसम्पन्ना (वृष्टिः) (सचताम्) समवैतु। [अयं मन्त्रः शत०७.५.२.८ व्याख्यातः] ॥३० ॥