ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒नऽआ॑वः। स बु॒ध्न्या᳖ऽ उप॒माऽ अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ वि वः॑ ॥३ ॥
ब्रह्म॑। ज॒ज्ञा॒नम्। प्र॒थ॒मम्। पु॒रस्ता॑त्। वि। सी॒म॒तः। सु॒रुच॒ इति॑ सु॒ऽरुचः॑। वे॒नः। आ॒व॒रित्या॑वः। सः। बु॒ध्न्याः᳖। उ॒प॒मा इत्यु॑प॒ऽमाः। अ॒स्य॒। वि॒ष्ठाः। वि॒स्था इति॑ वि॒ऽस्थाः। स॒तः। च॒। योनि॑म्। अस॑तः। च॒। वि। व॒रिति॑ वः ॥३ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
मनुष्यों को किस स्वरूपवाला ब्रह्म उपासना के योग्य है, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
किं स्वरूपं ब्रह्म जनैरुपास्यमित्याह ॥
(ब्रह्म) सर्वेभ्यो बृहत् (जज्ञानम्) सर्वस्य जनकं विज्ञातृ (प्रथमम्) विस्तृतं विस्तारयितृ (पुरस्तात्) सृष्ट्यादौ (वि) (सीमतः) सीमातो मर्य्यादातः (सुरुचः) सुप्रकाशमानः सुष्ठु रुचिविषयश्च (वेनः) कमनीयः। वेनतीति कान्तिकर्म्मा ॥ (निघं०२.६) (आवः) आवृणोति स्वव्याप्त्याच्छादयति (सः) (बुध्न्याः) बुध्ने जलसम्बद्धेऽन्तरिक्षे भवाः सूर्य्यचन्द्रपृथिवीतारकादयो लोकाः (उपमाः) उपमिमते याभिस्ताः (अस्य) जगदीश्वरस्य (विष्ठाः) या विविधेषु स्थानेषु तिष्ठन्ति ताः (सतः) विद्यमानस्य व्यक्तस्य (च) अव्यक्तस्य (योनिम्) स्थानमाकाशम् (असतः) अविद्यमानस्यादृश्यस्याव्यक्तस्य कारणस्य (च) महत्तत्त्वादेः (विवः) विवृणोति। अत्र मन्त्रे घस० [अष्टा०२.४.८०] इति च्लेर्लुगडभावश्च ॥३॥ अत्राह यास्कमुनिः—विसीमतः सुरुचो वेन आवरिति च व्यवृणोत् सर्वत आदित्यः सुरुच आदित्यरश्मयः सुरोचनादपि वा सीमेत्येतदनर्थकमुपबन्धमाददीत पञ्चमीकर्माणं सीम्नः सीमतः सीमातो मर्य्यादातः सीमा मर्य्यादा विषीव्यति देशाविति। निरु०१.७। [अयं मन्त्रः शत०७.४.१.१४ व्याख्यातः] ॥३ ॥