अ॒व॒पत॑न्तीरवदन् दि॒वऽओष॑धय॒स्परि॑। यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥९१ ॥
अ॒व॒पत॑न्ती॒रित्य॑व॒ऽपत॑न्तीः। अ॒व॒द॒न्। दि॒वः। ओष॑धयः। परि॑। यम्। जी॒वम्। अ॒श्नवा॑महै। नः। सः। रि॒ष्या॒ति॒। पूरु॑षः। पूरु॑ष॒ इति॒ पुरु॑षः ॥९१ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
अध्यापक लोग सब को उत्तम ओषधि जनावें, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अध्यापकाः सर्वेभ्य उत्तमौषधिविज्ञानं कारयेयुरित्याह ॥
(अवपतन्तीः) अध आगच्छन्तीः (अवदन्) उपदिशन्तु (दिवः) प्रकाशात् (ओषधयः) सोमाद्याः (परि) सर्वतः (यम्) (जीवम्) प्राणधारकम् (अश्नवामहै) प्राप्नुयाम (न) निषेधे (सः) (रिष्याति) रोगैर्हिंसितो भवेत् (पूरुषः) पुमान् ॥९१ ॥
