या ओष॑धीः॒ पूर्वा॑ जा॒ता दे॒वेभ्य॑स्त्रियु॒गं पु॒रा। मनै॒ नु ब॒भ्रूणा॑म॒हꣳ श॒तं धामा॑नि स॒प्त च॑ ॥७५ ॥
याः। ओष॑धीः। पूर्वाः॑। जा॒ताः। दे॒वेभ्यः॑। त्रि॒यु॒गमिति॑ त्रिऽयु॒गम्। पु॒रा। मनै॑। नु। ब॒भ्रूणा॑म्। अ॒हम्। श॒तम्। धामा॑नि। स॒प्त। च॒ ॥७५ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
मनुष्यों को अवश्य ओषधिसेवन कर रोगों से बचना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
मनुष्यैरवश्यमौषधसेवनं कृत्वारोगैर्वर्तितव्यमित्याह ॥
(याः) (ओषधीः) सोमाद्याः (पूर्वाः) (जाताः) प्रसिद्धाः (देवेभ्यः) पृथिव्यादिभ्यः (त्रियुगम्) वर्षत्रयम् (पुरा) (मनै) मन्यै, अत्र विकरणव्यत्ययेन शप् (नु) शीघ्रम् (बभ्रूणाम्) भरणानां धारकाणां रोगिणाम् (अहम्) (शतम्) अनेकानि (धामानि) मर्मस्थानानि (सप्त) (च) ॥७५ ॥
