हिन्दी - स्वामी दयानन्द सरस्वती
फिर मनुष्य किन का सेवन करें, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनर्मनुष्याणां के सेवनीयाः सन्तीत्याह ॥
(समिधा) सम्यगग्निसंस्कृतेनान्नादिना (अग्निम्) उपदेशकं विद्वांसम् (दुवस्यत) सेवध्वम् (घृतैः) घृतादिभिः (बोधयत) चेतयत (अतिथिम्) अनियततिथिमुपदेशकम् (आ) (अस्मिन्) (हव्या) दातुमर्हाणि (जुहोतन) दत्त। [अयं मन्त्रः शत०६.८.१.६ व्याख्यातः] ॥३० ॥