त्वाम॑ग्ने॒ यज॑माना॒ऽअनु॒ द्यून् विश्वा॒ वसु॑ दधिरे॒ वार्या॑णि। त्वया॑ स॒ह द्रवि॑णमि॒च्छमा॑ना व्र॒जं गोम॑न्तमु॒शिजो॒ विव॑व्रुः ॥२८ ॥
त्वाम्। अ॒ग्ने॒। यज॑मानाः। अनु॑। द्यून्। विश्वा॑। वसु॑। द॒धि॒रे॒। वार्या॑णि। त्वया॑। स॒ह। द्रवि॑णम्। इ॒च्छमा॑नाः। व्र॒जम्। गोम॑न्त॒मिति॒ गोऽम॑न्तम्। उ॒शिजः॑। वि। व॒व्रुः॒ ॥२८ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर मनुष्य लोग विद्या को किस प्रकार बढ़ावें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनर्मनुष्यैर्विद्याः कथं वर्द्धनीया इत्याह ॥
(त्वाम्) (अग्ने) विद्वन् (यजमानाः) सङ्गन्तारः (अनु) (द्यून्) दिनानि (विश्वा) सर्वाणि (वसु) वसूनि द्रव्याणि (दधिरे) धरेयुः (वार्याणि) स्वीकर्त्तुमर्हाणि (त्वया) (सह) साकम् (द्रविणम्) धनम् (इच्छमानाः) व्यत्ययेनाऽत्रात्मनेपदम् (व्रजम्) मेघम् (गोमन्तम्) प्रशस्ता गावः किरणा यस्मिंस्तम् (उशिजः) मेधाविनः। उशिगिति मेधाविनामसु पठितम् ॥ (निघं०३.१५) (वि) (वव्रुः) वृणुयुः ॥२८ ॥