नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेकं॑ꣳ समी॒ची। द्यावा॒क्षामा॑ रु॒क्मोऽअ॒न्तर्विभा॑ति दे॒वाऽअ॒ग्निं धा॑रयन् द्रविणो॒दाः ॥२ ॥
नक्तो॒षासा॑। नक्तो॒षसेति॒ नक्तो॒षसा॑। सम॑न॒सेति॒ सऽम॑नसा। विरू॑पे॒ इति॒ विऽरू॑पे। धा॒पये॑ते॒ऽइति॑ धा॒पये॑ते। शिशु॑म्। एक॑म्। स॒मी॒ची इति॑ सम्ऽई॒ची। द्यावा॒क्षामा॑। रु॒क्मः। अ॒न्तः। वि। भा॒ति॒। दे॒वाः। अ॒ग्निम्। धा॒र॒य॒न्। द्र॒वि॒णो॒दा इति॑ द्रविणः॒ऽदाः ॥२ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर भी वही विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(नक्तोषासा) नक्तं रात्रिं चोषा दिनं च ते (समनसा) समानं मनो विज्ञानं ययोस्ते (विरूपे) तमःप्रकाशाभ्यां विरुद्धरूपे (धापयेते) पाययतः (शिशुम्) बालकम् (एकम्) असहायम् (समीची) ये सम्यगञ्चतः सर्वान् प्राप्नुतस्ते (द्यावाक्षामा) प्रकाशभूमी, अत्र अन्येषामपि० [अष्टा०६.३.१३७] इति दीर्घः (रुक्मः) रुचिकरः (अन्तः) आभ्यन्तरे (वि) (भाति) प्रकाशते (देवाः) दिव्याः प्राणाः (अग्निम्) विद्युतम् (धारयन्) धारयेयुः (द्रविणोदाः) ये द्रविणं बलं ददति ते। द्रविणोदाः कस्माद्धनं द्रविणमुच्यते यदेनदभिद्रवन्ति बलं वा द्रविणं यदेनेनाभिद्रवन्ति, तस्य दाता द्रविणोदाः ॥ (निरु० ८.१)। [अयं मन्त्रः शत०६.७.२.३ व्याख्यातः] ॥२ ॥