आप्या॑यस्व मदिन्तम॒ सोम॒ विश्वे॑भिर॒ꣳशुभिः॑। भवा॑ नः स॒प्रथ॑स्तमः॒ सखा॑ वृ॒धे ॥११४ ॥
आ। प्या॒य॒स्व॒। म॒दि॒न्त॒मेति॑ मदिन्ऽतम। सोम॑। विश्वे॑भिः। अ॒ꣳशुभि॒रित्य॒ꣳशुऽभिः॑। भव॑। नः॒। स॒प्रथ॑स्तम॒ इति॑ स॒प्रथः॑ऽतमः। सखा॑। वृ॒धे॒ ॥११४ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
संसार में कौन वृद्धि को प्राप्त होता है, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
कोऽत्र वर्द्धत इत्याह ॥
(आ) (प्यायस्व) (मदिन्तम) अतिशयेन मदितुं हर्षितुं शील (सोम) ऐश्वर्य्ययुक्त (विश्वेभिः) सर्वैः (अंशुभिः) किरणैः (भव) द्व्यचोऽतस्तिङः [अष्टा०६.३.१३५] इति दीर्घः (नः) अस्माकम् (सप्रथस्तमः) अतिशयेन विस्तृतसुखकारकः (सखा) मित्रः (वृधे) वर्धनाय ॥११४ ॥
