इ॒र॒ज्यन्न॑ग्ने प्रथयस्व ज॒न्तुभि॑र॒स्मे रायो॑ऽअमर्त्य। स द॑र्श॒तस्य॒ वपु॑षो॒ वि रा॑जसि पृ॒णक्षि॑ सान॒सिं क्रतु॑म् ॥१०९ ॥
इ॒र॒ज्यन्। अ॒ग्ने॒। प्र॒थ॒य॒स्व॒। ज॒न्तुभि॒रिति॑ ज॒न्तुऽभिः॑। अ॒स्मेऽइत्य॒स्मे। रायः॑। अ॒म॒र्त्य॒। सः। द॒र्श॒तस्य॑। वपु॑षः। वि। रा॒ज॒सि॒। पृ॒णक्षि॑। सा॒न॒सिम्। क्रतु॑म् ॥१०९ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
मनुष्य कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
मनुष्यः कीदृशो भवेदित्याह ॥
(इरज्यन्) ऐश्वर्य्यं कुर्वन्, इरज्यतीति ऐश्वर्य्यकर्मसु पठितम् ॥ (निघं०२.२१) (अग्ने) अग्निवत् प्राप्तपुरुषार्थ (प्रथयस्व) विस्तारय (जन्तुभिः) मनुष्यादिभिः (अस्मे) अस्मभ्यम् (रायः) श्रियः (अमर्त्य) नाशप्राकृतमनुष्यस्वभावरहित (सः) (दर्शतस्य) द्रष्टुं योग्यस्य (वपुषः) रूपस्य, वपुरिति रूपनामसु पठितम् ॥ (निघं०३.७) (वि) (राजसि) (पृणक्षि) सम्बध्नासि (सानसिम्) सनातनीम् (क्रतुम्) प्रज्ञाम्। [अयं मन्त्रः शत०७.३.१.३२ व्याख्यातः] ॥१०९ ॥