ऋ॒तꣳ स॒त्यमृ॒तꣳ स॒त्यम॒ग्निं पु॑री॒ष्य᳖मङ्गिर॒स्वद्भ॑रामः। ओष॑धयः॒ प्रति॑मोदध्वम॒ग्निमे॒तꣳ शि॒वमा॒यन्त॑म॒भ्यत्र॑ यु॒ष्माः। व्यस्य॒न् विश्वा॒ऽअनि॑रा॒ऽअमी॑वा नि॒षीद॑न्नो॒ऽअप॑ दुर्म॒तिं ज॑हि ॥४७ ॥
ऋ॒तम्। स॒त्यम्। ऋ॒तम्। स॒त्यम्। अ॒ग्निम्। पु॒री॒ष्य᳖म्। अ॒ङ्गि॒र॒स्वत्। भ॒रा॒मः॒। ओष॑धयः। प्रति॑। मो॒द॒ध्व॒म्। अ॒ग्निम्। ए॒तम्। शि॒वम्। आ॒यन्त॒मित्या॒ऽयन्त॑म्। अ॒भि। अत्र॑। यु॒ष्माः। व्यस्य॒न्निति॑ वि॒ऽअस्य॑न्। विश्वाः॑। अनि॑राः। अमी॑वाः। नि॒षीद॑न्। नि॒सीद॒न्निति॑ नि॒ऽसीद॑न्। नः॒। अप॑। दु॒र्म॒तिमिति॑ दुःऽम॒तिम्। ज॒हि॒ ॥४७ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
मनुष्यों को क्या-क्या आचरण करना और क्या-क्या छोड़ना चाहिये, यह विषय अगले मन्त्र में कहा है।
संस्कृत - स्वामी दयानन्द सरस्वती
मनुष्यैः किं किमाचरणीयं किं किं च त्यक्तव्यमित्याह ॥
(ऋतम्) यथार्थम् (सत्यम्) अविनश्वरम् (ऋतम्) अव्यभिचारि (सत्यम्) सत्सु पुरुषेषु साधु सत्यं मानं भाषणं कर्म च (अग्निम्) विद्युतम् (पुरीष्यम्) पालनसाधनेषु भवम् (अङ्गिरस्वत्) वायुवत् (भरामः) धरामः (ओषधयः) यवादयः (प्रति) (मोदध्वम्) सुखयत (अग्निम्) (एतम्) पूर्वोक्तम् (शिवम्) मङ्गलकारिणम् (आयन्तम्) प्राप्नुवन्तम् (अभि) आभिमुख्ये (अत्र) (युष्माः) युष्मान्। अत्र वाच्छन्दसि [अष्टा०वा०१.४.९] इति शसो नादेशाभावः। (व्यस्यन्) विविधतया प्रक्षिपन् (विश्वाः) सर्वाः (अनिराः) नितरां दातुमयोग्याः (अमीवाः) रोगपीडाः (निषीदन्) अवस्थितः सन् (नः) अस्माकम् (अप) दूरीकरणे (दुर्मतिम्) दुष्टां मतिम् (जहि) नाशय। [अयं मन्त्रः शत०६.४.४.१० व्याख्यातः] ॥४७ ॥