धूर॑सि॒ धूर्व॒ धूर्व॑न्तं॒ धूर्व॒ तं यो॒ऽस्मान् धूर्व॑ति॒ तं धू॑र्व॒ यं व॒यं धूर्वा॑मः। दे॒वाना॑मसि॒ वह्नि॑तम॒ꣳ सस्नि॑तमं॒ पप्रि॑तमं॒ जुष्ट॑तमं देव॒हूत॑मम् ॥८॥
धूः। अ॒सि॒। धूर्व॑। धूर्व॑न्तं। धूर्व॑। तं। यः। अ॒स्मान्। धूर्व॑ति। तं। धू॒र्व॒। यं। व॒यं। धूर्वा॑मः। दे॒वाना॑म्। अ॒सि॒। वह्नि॑तम॒मिति॒ वह्नि॑ऽतमम्। सस्नि॑तम॒मिति॒ सस्नि॑ऽतमम्। पप्रि॑तम॒मिति॒ पप्रि॑ऽतमम्। जुष्ट॑तम॒मिति॒ जुष्ट॑ऽतमम्। दे॒व॒हूत॑म॒मिति दे॒व॒हूऽत॑मम् ॥८॥
हिन्दी - स्वामी दयानन्द सरस्वती
सब क्रियाओं के धारण करनेवाले ईश्वर और पदार्थविद्या की सिद्धि के हेतु भौतिक अग्नि का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ सर्वविद्याधारकेश्वरो विद्यासाधनीभूतो भौतिकोऽग्निश्चोपदिश्यते ॥
(धूः) सर्वदोषनाशकोऽन्धकारनाशको वा (असि) अस्ति वा। अत्र सर्वत्र भौतिकपक्षे व्यत्ययेन प्रथमपुरुषो गृह्यते (धूर्व) हिंसय धूर्वति हिनस्ति वा (धूर्वन्तम्) हिंसाशीलं प्राणिनम् (धूर्व) हिंसय हिनस्ति वा (तम्) सर्वभूताभिद्रोग्धारम् (यः) अस्मद्द्वेष्टा (अस्मान्) धार्मिकान् सर्वेभ्यः सुखोपकर्तॄन् (धूर्वति) हिनस्ति (तम्) दुष्टं दस्युं चोरं वा (धूर्व) हिंसय हिनस्ति वा (यम्) पापिनम् (वयम्) विद्वांसः सर्वमित्राः (धूर्वामः) हिंसामः (देवानाम्) विदुषां पृथिव्यादीनां वा (असि) उत्पादको वर्त्तसे प्रकाशको वर्त्तते वा (वह्नितमम्) वहति प्रापयति यथायोग्यं सुखानि स वह्निः सोऽतिशयितस्तम् (सस्नितमम्) अतिशयेन शुद्धं शुद्धिकारकं च। तथा शुद्धिहेतुं भौतिकं वा। अथवा स्वव्याप्त्या सर्वजगद्द्वेष्टयितारमीश्वरं शिल्पविद्याहेतुं व्यापनशीलं भौतिकं वा। स्ना शौचे। अथवा ष्णो वेष्टने। इत्यस्य रूपम् (पप्रितमम्) प्राति प्रपूरयति सर्वाभिर्विद्याभिरानन्दैश्च जनान् स्वव्याप्त्या जगद्वा मूर्त्तं वस्तु शिल्पविद्यासाध्याङ्गानि च यः सोऽतिशयितस्तम् (जुष्टतमम्) धार्मिकैर्भक्तजनैः शिल्पिभिश्च यो जुष्यते स जुष्टः। अतिशयेन जुष्टस्तम् (देवहूतमम्) देवैर्विद्वद्भिः स्तूयते शब्द्यते सोऽतिशयितस्तम्। ‘ह्वेञ् स्पर्धायां शब्दे च’ इत्यस्य रूपम् ॥ अयं मन्त्रः (शत꠶१.१.२.१०-१२) व्याख्यातः ॥८॥