प्रत्यु॑ष्ट॒ꣳरक्षः॒ प्रत्यु॑ष्टा॒ऽअरा॑तयो॒ निष्ट॑प्त॒ꣳरक्षो॒ निष्ट॑प्ता॒ऽअरा॑तयः। उ॒र्व᳕न्तरि॑क्ष॒मन्वे॑मि ॥७॥
प्रत्यु॑ष्ट॒मिति॒ प्रति॑ऽउष्टम्। रक्षः॑। प्रत्यु॑ष्टा॒ इति॒ प्रति॑ऽउष्टाः। अरा॑तयः। निष्ट॑प्तम्। निस्त॑प्त॒मिति॒। निःऽत॑प्तम्। रक्षः॑। निष्ट॑प्ताः। निस्त॑प्ता॒ इति॒ निःऽत॑प्ताः। अरा॑तयः। उ॒रु। अ॒न्तरि॑क्षम्। अनु॑ऽए॒मि॒ ॥७॥
हिन्दी - स्वामी दयानन्द सरस्वती
सब मनुष्यों को उचित है कि दुष्ट गुण और दुष्ट स्वभाववाले मनुष्यों का निषेध करें, इस बात का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
सर्वैर्दुष्टगुणानां दुष्टमनुष्याणां च निषेधः कर्त्तव्य इत्युपदिश्यते ॥
(प्रत्युष्टम्) यत्प्रतीतं च तदुष्टं दग्धं च तत् (रक्षः) रक्षःस्वभावो दुष्टो मनुष्यः (प्रत्युष्टाः) प्रत्यक्षतया उष्टा दग्धव्यास्ते (अरातयः) अविद्यमाना रातिर्दानं येषु ते शत्रवः (निष्टप्तम्) नितरां तप्तं संतापयुक्तं च कार्य्यम् (रक्षः) स्वार्थी मनुष्यः (निष्टप्ताः) पूर्ववत् (अरातयः) कपटेन विद्यादानग्रहणरहिताः (उरु) बहुविधं सुखं प्राप्तुं प्रापयितुं वा। उर्विति बहुनामसु पठितम् (निघं꠶३.१)। (अन्तरिक्षम्) सुखसाधनार्थमवकाशम् (अन्वेमि) अनुगतं प्राप्नोमि ॥ अयं मन्त्रः (शत꠶१.१.२.२-४) व्याख्यातः ॥७॥