वसोः॑ प॒वित्र॑मसि श॒तधा॑रं॒ वसोः॑ प॒वित्र॑मसि स॒हस्र॑धारम्। दे॒वस्त्वा॑ सवि॒ता पु॑नातु॒ वसोः॑ प॒वित्रे॑ण श॒तधा॑रेण सु॒प्वा᳕ काम॑धुक्षः ॥३॥
वसोः॑। प॒वित्र॑म्। अ॒सि॒। श॒तधा॑र॒मिति॑ श॒तऽधा॑रम्। वसोः॑। प॒वित्र॑म्। अ॒सि॒। स॒हस्र॑धार॒मिति॑ स॒हस्र॑ऽधारम्। दे॒वः। त्वाः॒। स॒वि॒ता। पु॒ना॒तु॒। वसोः॑। प॒वित्रे॑ण। श॒तधा॑रे॒णेति॑ श॒तऽधा॑रेण। सु॒प्वेति॑ सु॒ऽप्वा᳕। काम्। अ॒धु॒क्षः॒ ॥३॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उक्त यज्ञ कैसा सुख करता है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनः स कीदृश इत्युपदिश्यते ॥
(वसोः) वसुर्यज्ञः (पवित्रम्) शुद्धिकारकं कर्म (असि) अस्ति। अत्र सर्वत्र पुरुषव्यत्ययः (शतधारम्) शतं बहुविधमसंख्यातं विश्वं धरतीति तम्। शतमिति बहुनामसु पठितम् (निघं꠶३.१)। (वसोः) वसुर्यज्ञः (पवित्रम्) वृद्धिनिमित्तम् (असि) अस्ति (सहस्रधारम्) बहुविधं ब्रह्माण्डं धरतीति तं यज्ञम्। सहस्रमिति बहुनामसु पठितम् (निघं꠶३.१)। (देवः) स्वयंप्रकाशस्वरूपः परमेश्वरः (त्वा) तं यज्ञम् (सविता) सर्वेषां वसूनामग्निपृथिव्यादीनां त्रयस्त्रिंशतो देवानां सविता। सविता वै देवानां प्रसविता (शत꠶१.१.२.१७)। (पुनातु) पवित्रीकरोतु (वसोः) पूर्वोक्तो यज्ञः (पवित्रेण) पवित्रनिमित्तेन वेदविज्ञानकर्मणा (शतधारेण) बहुविद्याधारकेण परमेश्वरेण वेदेन वा (सुप्वा) सुष्ठुतया पुनाति पवित्रहेतुर्वा तेन (काम्) कां कां वाचं (अधुक्षः) दोग्धुमिच्छसीति प्रश्नः। अत्र लडर्थे लुङ् ॥ अयं मन्त्रः (शत꠶१.५.४.१२-१६) व्याख्यातः ॥३॥