अपा॒ररुं॑ पृथि॒व्यै दे॑व॒यज॑नाद्वध्यासं व्र॒जं ग॑च्छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्या श॒तेन॒ पाशै॒र्यो᳕ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्विष्मस्तमतो॒ मा मौ॑क्। अर॑रो॒ दिवं॒ मा प॑प्तो द्र॒प्सस्ते॒ द्यां मा स्क॑न् व्र॒जं ग॑च्छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्या श॒तेन॒ पाशै॒र्यो᳕ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॑क् ॥२६॥
अप॑। अ॒ररु॑म्। पृ॒थि॒व्यै। दे॒व॒यज॑ना॒दिति॑ देव॒ऽयज॑नात्। व॒ध्या॒स॒म्। व्र॒जम्। ग॒च्छ॒। गो॒ष्ठान॑म्। गो॒स्थान॒मिति गो॒ऽस्थान॑म्। व॑र्षतु। ते॒। द्यौः। ब॒धा॒न। दे॒व॒। स॒वि॒त॒रिति सवितः। प॒र॒म्। अस्या॑म्। पृ॒थि॒व्याम्। श॒तेन॑। पाशैः॑। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। तम्। अतः॑। मा। मौ॒क्। अर॑रो॒ऽइत्यर॑रो। दिव॑म्। मा। प॒प्तः॒। द्र॒प्सः। ते॒। द्याम्। मा। स्क॒न्। व्र॒जम्। ग॒च्छ॒। गो॒ष्ठान॑म्। गो॒स्थान॒मिति गो॒ऽस्थान॑म्। व॑र्षतु। ते॒। द्यौः। ब॒धा॒न। दे॒व॒। स॒वि॒त॒रिति॑ सवितः। प॒र॒मस्या॑म्। पृ॒थि॒व्याम्। श॒तेन॑। पाशैः॑। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। तम्। अतः॑। मा। मौ॒क् ॥२६॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर इस यज्ञ से क्या क्या कार्य सिद्ध होता है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनरेतेन यज्ञेन किं किं सिध्यतीत्युपदिश्यते ॥
(अप) धात्वर्थे (अररुम्) असुरराक्षसस्वभावशत्रुम्। अर्त्तेररुः। (उणा꠶४।७९) अनेन ऋधातोररुः प्रत्ययः (पृथिव्यै) पृथिव्याम्। अत्र सुपां सुलुग् [अष्टा꠶७.१.३९] इति सप्तमीस्थाने चतुर्थी (देवयजनात्) देवा यजन्ति यस्मिन् तस्मात् (वध्यासम्) हन्याम् (व्रजम्) व्रजन्ति जानन्ति जना येन तं सत्सङ्गम् (गच्छ) प्राप्नुहि गच्छतु वा (गोष्ठानम्) गौर्वाणी तिष्ठति यस्मिन्नध्ययनाध्यापने तं व्यवहारम्। गौरिति वाङ्नामसु पठितम्। (निघं꠶१।११)। (वर्षतु) शब्दविद्याया वृष्टिं करोतु (ते) तव (द्यौः) विद्याप्रकाशः। दिवो द्योतनकर्मणामादित्यरश्मीनाम्। (निरु꠶१३।२५)। (बधान) बन्धय (देव) सर्वानन्दप्रदेश्वरव्यवहारहेतुर्वा (सवितः) सर्वेषु जीवेष्वन्तर्यामितया सत्यप्रेरकव्यवहारप्रेरणाहेतुर्वा (परम्) शत्रुभूतम् (अस्याम्) आधारभूतायाम् (पृथिव्याम्) बहुपदार्थप्रदायाम् (शतेन) बहुभिः (पाशैः) बन्धनैः (यः) मूर्खः (अस्मान्) विद्यारतप्रचारकान् (द्वेष्टि) अपप्रीणाति (यम्) विद्याविरोधिनम् (च) पुनरर्थे (वयम्) विद्वांसः (द्विष्मः) अपप्रीणीमः (तम्) पूर्वोक्तं विद्याशत्रुम् (अतः) अस्माद् बन्धनादुपदेशाद्वा (मा) निषेधार्थे (मौक्) त्यज (अररो) दुष्टमनुष्य (दिवम्) प्रकाशम् (मा) निषेधार्थे (पप्तः) पततु। अत्र लोडर्थे लुङ् (द्रप्सः) हर्षकारी रसः। ‘दृप हर्षणमोहनयोः’ इत्यस्मादौणादिकः ‘सः’ प्रत्ययः। अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्। (अष्टा꠶६।१।५९) अनेनामागमः (ते) तव तस्याः पृथिव्या वा (द्याम्) आनन्दम्। दिवु धातोर्बाहुलकाड्डोप्रत्ययष्टिलोपे प्राप्ते वकारलोपश्च (मा) निषेधार्थे (स्कन्) निस्सारयतु। अत्र लोडर्थे लङ्। बहुलं छन्दसि [अष्टा꠶२.४.७३] इति शपो लुक् (व्रजम्) व्रजन्ति विद्वांसो यस्मिन् सन्मार्गे तम् (गच्छ) गच्छतु गमय वा (गोष्ठानम्) गौः पृथिवी तिष्ठति यस्मिन् तदन्तरिक्षम् (वर्षतु) सिञ्चतु (ते) तव (द्यौः) कान्तिः। द्यौर्वै सर्वेषां देवानामायतनम्। (शत꠶१४।३।२।८)। (बधान) बध्नाति वा पक्षे व्यत्ययः (देव) विजयप्रदविजयहेतुर्वा (सवितः) सर्वोत्पादकव्यवहारोत्पत्तिहेतुर्वा (परम्) शत्रुम् (अस्याम्) सर्वबीजारोपणार्थायाम् (पृथिव्याम्) बहुप्रजायुक्तायाम् (शतेन) बहुभिः (पाशैः) सामदामदण्डभेदादिकर्मभिः (यः) न्यायविरोधी (अस्मान्) न्यायाधीशान् (द्वेष्टि) कोपयति (यम्) अन्यायकारिणम् (च) पुनरर्थे (वयम्) सर्वहितसंपादिनः (द्विष्मः) कोपयामः (तम्) अधर्मप्रियम् (अतः) शिक्षणात् (मा) निषेधे (मौक्) त्यजतु ॥ अयं मन्त्रः (शत꠶१।२।४।१७-२१) व्याख्यातः ॥२६॥