दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳕ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। सं व॑पामि॒ समाप॒ऽओष॑धीभिः॒ समोष॑धयो॒ रसे॑न। सꣳ रे॒वती॒र्जग॑तीभिः पृच्यन्ता॒ सं मधु॑मती॒र्मधु॑मतीभिः पृच्यन्ताम् ॥२१॥
दे॒वस्य॑। त्वा॒। स॒वि॒तुः। प्र॒स॒व इति॑ प्रऽस॒वे। अ॒श्विनोः॑। बा॒हुभ्या॒मिति॑ बा॒हुभ्या॑म्। पू॒ष्णः। हस्ता॑भ्याम्। सम्। व॒पा॒मि॒। सम्। आपः॑। ओष॑धीभिः। सम्। ओष॑धयः। रसे॑न। सम्। रे॒वतीः॑। जग॑तीभिः। पृ॒च्य॒न्ता॒म्। सम्। मधु॑मती॒रिति॒ मधु॑ऽमतीः। मधु॑मतीभि॒रिति॒ मधु॑ऽमतीभिः। पृ॒च्य॒न्ता॒म् ॥२१॥
हिन्दी - स्वामी दयानन्द सरस्वती
जिन औषधियों से अन्न बनता है, वे यज्ञादि करने से कैसे शुद्ध होती हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
ईश्वरेण याभ्य ओषधिभ्योऽन्नादिकं जायते, ताः कथं शुद्धा जायन्त इत्युपदिश्यते ॥
(देवस्य) विधातुरीश्वरस्य द्योतकस्य सूर्य्यस्य वा (त्वा) तं त्रिविधं यज्ञम् (सवितुः) सवति सकलैश्वर्य्यं जनयति तस्य (प्रसवे) उत्पादितेऽस्मिन् संसारे (अश्विनोः) प्रकाशभूम्योः। द्यावापृथिव्यावित्येके। (निरु꠶१२।१)। (बाहुभ्याम्) तेजोदृढत्वाभ्याम् (पूष्णः) पुष्टिकर्त्तुर्वायोः। पूषेति पदनामसु पठितम्। (निघं꠶५।६)। अनेन पुष्टिहेतुर्गृह्यते (हस्ताभ्याम्) प्राणापानाभ्याम् (सम्) सम्यगर्थे (वपामि) विस्तारयामि (सम्) संमेलने। समित्येकीभावं प्राह। (निरु꠶१।३) (आपः) जलानि। आप इत्युदकनामसु पठितम्। (निघं꠶१।१२)। (ओषधीभिः) यवादिभिः। ओषधयः ओषद् धयन्तीति वौषत्येना धयन्तीति वा दोषं धयन्तीति वा ॥ (निरु꠶९।२७)। (सम्) सम्यगर्थे (ओषधयः) यवादयः। ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः। (मनुस्मृतौ अष्टा꠶१। श्लो꠶४६)। (रसेन) सारेणार्द्रेणानन्दकारकेण (सम्) प्रशंसार्थे (रेवतीः) रेवत्य आपः। अत्र सुपां सुलुग्꠶ [अष्टा꠶७.१.३९] इति पूर्वसवर्णादेशः (जगतीभिः) उत्तमाभिरोषधीभिः (पृच्यन्ताम्) मेल्यन्ताम्। पृच्यन्ते वा (सम्) श्रैष्ठ्ये (मधुमतीः) मधुः प्रशस्तो रसो विद्यते यासु ता मधुमत्य आपः। अत्र प्रशंसार्थे मतुप्। सुपां सुलुग् [अष्टा꠶७.१.३९] इति पूर्वसवर्णादेशश्च (मधुमतीभिः) मधुर्बहुविधो रसो वर्त्तते यासु ताभिरोषधीभिः। अत्र भूमार्थे मतुप् (पृच्यन्ताम्) युक्त्या वैद्यकशिल्पशास्त्ररीत्या मेल्यन्ताम् ॥ अयं मन्त्रः (शत꠶१।१।६।१-२) व्याख्यातः ॥२१॥