प॒वित्रे॑ स्थो वैष्ण॒व्यौ᳖ सवि॒तुर्वः॑ प्रस॒व उत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य्य॑स्य रश्मिभिः॑। देवी॑रापोऽअग्रेगुवोऽअग्रेपु॒वोऽग्र॑ऽइ॒मम॒द्य य॒ज्ञं न॑य॒ताग्रे॑ य॒ज्ञप॑तिꣳ सु॒धातुं॑ य॒ज्ञप॑तिं देव॒युव॑म् ॥१२॥
प॒वित्रे॒ऽइति॑ प॒वित्रे॑। स्थः॒। वै॒ष्ण॒व्यौ᳖। स॒वि॒तुः। वः॒। प्र॒स॒व इति॑ प्र॒ऽस॒वे। उत्। पु॒ना॒मि॒। अच्छि॑द्रेण। प॒वित्रे॑ण। सूर्य्य॑स्य। र॒श्मिभि॒रिति॑ र॒श्मिऽभिः॑। देवीः॑। आ॒पः॒। अ॒ग्रे॒गु॒व॒ इत्य॑ग्रेऽगुवः। अ॒ग्रे॒पु॒व॒ इत्य॑ग्रेऽपुवः॒। अग्रे॑। इ॒मम्। अ॒द्य। य॒ज्ञम्। न॒य॒त॒। अग्रे॑। य॒ज्ञप॑ति॒मिति॑ य॒ज्ञऽप॑तिम्। सु॒धातु॒मिति॑ सु॒धाऽतु॑म्। य॒ज्ञप॑ति॒मिति॑ यज्ञऽप॑तिम्। दे॒व॒युव॒मिति॑ देव॒ऽयुव॑म् ॥१२॥
हिन्दी - स्वामी दयानन्द सरस्वती
अग्नि में जिस द्रव्य का होम किया जाता है, वह मेघमण्डल को प्राप्त होके किस प्रकार का होकर क्या गुण करता है, इस बात का उपदेश ईश्वर ने अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अग्नौ हुतं द्रव्यं मेघमण्डलं प्राप्य कीदृशं भवतीत्युपदिश्यते ॥
(पवित्रे) पवित्रकरणहेतू प्राणापानगती (स्थः) भवतः। अत्र व्यत्ययः (वैष्णव्यौ) यज्ञस्येमौ व्याप्तिकर्त्तारौ पवनपावकौ तौ (सवितुः) जगदुत्पादकस्येश्वरस्य (वः) ताः। अत्र पुरुषव्यत्ययः (प्रसवे) उत्पन्नेऽस्मिन् जगति (उत्) धात्वर्थे। उदित्येतयोः प्रातिलोम्यं प्राह (निरु꠶१।३) (पुनामि) पवित्रीकरोमि (अच्छिद्रेण) छिद्ररहितैः (पवित्रेण) शुद्धिकरणहेतुभिः (सूर्य्यस्य) प्रत्यक्षलोकस्य (रश्मिभिः) किरणैः (देवीः) दिव्यगुणयुक्ताः। अत्र सुपां सुलुग् [अष्टा꠶७.१.३९] इति पूर्वसवर्णादेशः (आपः) जलानि (अग्रेगुवः) अग्रे समुद्रेऽन्तरिक्षे गच्छन्तीति ताः (अग्रेपुवः) प्रथमां पृथिवीस्थसोमौषधिं सेविकाः (अग्रे) पुरःसरत्वे क्रियासम्बन्धे (इमम्) प्रत्यक्षम् (अद्य) अस्मिन्नहनि (यज्ञम्) पूर्वोक्तम् (नयत) प्रापयत (अग्रे) (यज्ञपतिम्) यज्ञस्यानुष्ठातारं स्वामिनम् (सुधातुम्) शोभना धातवः शरीरस्था मन-आदयः सुवर्णादयो वा यस्य तम् (यज्ञपतिम्) यज्ञस्य कामयितारम् (देवयुवम्) देवान् विदुषो दिव्यगुणान् वा यौति प्राप्नोति प्रापयतीति वा तम् ॥ अयं मन्त्रः (शत꠶१।१।३।१-७) व्याख्यातः ॥१२॥