वांछित मन्त्र चुनें
आर्चिक को चुनें

Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166
देवता: अग्निः ऋषि: सुतंभर आत्रेयः छन्द: जगती स्वर: निषादः काण्ड:

ज꣡न꣢स्य गो꣣पा꣡ अ꣢जनिष्ट꣣ जा꣡गृ꣢विर꣣ग्निः꣢ सु꣣द꣡क्षः꣢ सुवि꣣ता꣢य꣣ न꣡व्य꣢से । घृ꣣त꣡प्र꣢तीको बृह꣣ता꣡ दि꣢वि꣣स्पृ꣡शा꣢ द्यु꣣म꣡द्वि भा꣢꣯ति भर꣣ते꣢भ्यः꣣ शु꣡चिः꣢ ॥९०७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे । घृतप्रतीको बृहता दिविस्पृशा द्युमद्वि भाति भरतेभ्यः शुचिः ॥९०७॥

मन्त्र उच्चारण
पद पाठ

ज꣡न꣢꣯स्य । गो꣣पाः꣢ । गो꣣ । पाः꣢ । अ꣣जनिष्ट । जा꣡गृ꣢꣯विः । अ꣣ग्निः꣢ । सु꣣द꣡क्षः꣢ । सु꣣ । द꣡क्षः꣢꣯ । सु꣣वि꣡ता꣢य । न꣡व्य꣢꣯से । घृ꣣त꣡प्र꣢तीकः । घृ꣣त꣢ । प्र꣣तीकः । बृहता꣢ । दि꣣विस्पृ꣡शा꣢ । दि꣣वि । स्पृ꣡शा꣢꣯ । द्यु꣣म꣢त् । वि । भा꣣ति । भरते꣡भ्यः꣢ । शु꣡चिः꣢꣯ ॥९०७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 907 | (कौथोम) 3 » 1 » 6 » 1 | (रानायाणीय) 5 » 3 » 1 » 1


0 बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा में परमेश्वर का स्वरूप वर्णित है।

पदार्थान्वयभाषाः -

(जागृविः) जागरूक परमेश्वर (जनस्य) सब मनुष्यों का (गोपाः) रक्षक (अजनिष्ट) बना हुआ है।(सुदक्षः) उत्तम बलवाला वह (अग्निः) अग्रनायक परमेश्वर (नव्यसे) अतिशय नवीन (सुविताय) भद्र-प्राप्ति के लिए सहायक होता है। (घृतप्रतीकः)तेजःस्वरूप, (शुचिः) पवित्र वह (भरतेभ्यः) धारणा, ध्यान, समाधि में स्थित जनों के लिए (दिविस्पृशा) आत्मा को छूनेवाले (बृहता) महान् तेज से (द्युमत्) दीप्यमान होता हुआ (वि भाति) शोभित होता है ॥१॥

भावार्थभाषाः -

तेजःस्वरूप परमेश्वर उपासकों का रक्षक होता हुआ उन्हें दिव्य तेज प्रदान करके कृतार्थ करता है ॥१॥

0 बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ परमेश्वरस्य स्वरूपमाह।

पदार्थान्वयभाषाः -

(जागृविः) जागरूकः परमेश्वरः (जनस्य) सर्वेषां जनानाम् (गोपाः) रक्षकः (अजनिष्ट) जातोऽस्ति।(सुदक्षः) सुबलः सः (अग्निः) अग्रणीः परमेश्वरः (नव्यसे)अतिशयेन नवीनाय (सुविताय) भद्रप्राप्तये सहायको जायते। (घृतप्रतीकः) तेजःस्वरूपः। [घृतं तेजोमयं प्रतीकं रूपं यस्य सः। घृ क्षरणदीप्त्योः।] (शुचिः) पवित्रः सः (भरतेभ्यः२) धारणाध्यानसमाधिस्थेभ्यो जनेभ्यः। [डुभृञ् धारणपोषणयोः इत्यस्मात् ‘भृमृदृशि’ उ० ३।११० इत्यनेन अतच् प्रत्ययः।] (दिविस्पृशा) आत्मस्पर्शिना (बृहता) महता तेजसा (द्युमत्) भासमानः सन् (विभाति) शोभते ॥१॥३

भावार्थभाषाः -

तेजःस्वरूपः परमेश्वर उपासकानां रक्षकः सन् तान् दिव्यतेजःप्रदानेन कृतार्थयति ॥१॥

टिप्पणी: १. ऋ० ५।११।१, यजु० १५।२७। २. भरत इति ऋत्विङ्नाम। निघं० ३।१८। (भरतेभ्यः) धारणपोषणकृद्भ्यो मनुष्येभ्यः इति ऋ० ५।११।१ भाष्ये द०। ३. दयानन्दर्षिणा ऋग्भाष्ये यजुर्भाष्ये च मन्त्रोऽयं क्रमेण पावकपक्षे विद्युत्पक्षे च व्याख्यातः।


Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609