Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166
मि꣣त्र꣡ꣳ हु꣢वे पू꣣त꣡द꣢क्षं꣣ व꣡रु꣢णं च रि꣣शा꣡द꣢सम् । धि꣡यं꣢ घृ꣣ता꣢ची꣣ꣳ सा꣡ध꣢न्ता ॥८४७॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)मित्रꣳ हुवे पूतदक्षं वरुणं च रिशादसम् । धियं घृताचीꣳ साधन्ता ॥८४७॥
मि꣣त्र꣢म् । मि꣣ । त्र꣢म् । हु꣣वे । पूत꣡द꣢क्षम् । पू꣣त꣢ । द꣣क्षम् । व꣡रु꣢꣯णम् । च꣣ । रिशा꣡द꣢सम् । धि꣡य꣢꣯म् । घृ꣣ता꣡ची꣢म् । सा꣡ध꣢꣯न्ता ॥८४७॥
हिन्दी : आचार्य रामनाथ वेदालंकार
प्रथम मन्त्र में ब्रह्म-क्षत्र का आह्वान किया गया है।
मैं (पूतदक्षम्) पवित्र बल को देनेवाले (मित्रम्) सबके मित्र ब्राह्मण को और (रिशादसम्) हिंसक शत्रुओं को नष्ट करनेवाले (वरुणं च) शत्रुनिवारक क्षत्रिय को (हुवे) पुकारता हूँ। वे दोनों (घृताचीम्) राष्ट्र को तेज प्राप्त करानेवाली (धियम्) ज्ञानशृङ्खला एवं कर्मशृङ्खला को (साधन्तौ) सिद्ध करनेवाले होते हैं ॥१॥
राष्ट्र में ब्राह्मण पवित्र ज्ञान-विज्ञान के बल को बढ़ाते हैं और क्षत्रिय शत्रुओं से राष्ट्र की रक्षा करते हैं, इसलिए उन्नति चाहनेवालों को दोनों का सदा सत्कार और पोषण करना चाहिए ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार
तत्रादौ ब्रह्मक्षत्रे आह्वयति।
अहम् (पूतदक्षम्) पूतः पवित्रः दक्षः बलं यस्य यस्माद् वा सः पूतदक्षः तम् (मित्रम्) सर्वमित्रं ब्राह्मणम्, (रिशादसम्) रिशन्ति हिंसन्ति ये ते रिशाः तान् हिंसकान् शत्रून् दस्यति नाशयति यः सः रिशादसः तम्। [रिश हिंसायाम्, दसु उपक्षये। ‘शा’ इत्यत्र दीर्घश्छान्दसः। रिशादसः रेशयदासिनः इति निरुक्तम् ६।१४।] (वरुणं च) शत्रुवारकं क्षत्रियं च (हुवे) आह्वयामि। तौ (घृताचीम्) राष्ट्रस्य तेजःप्रापयित्रीम्। [घृतं तेजः अञ्चति प्रापयतीति तम्। घृ क्षरणदीप्त्योः, अञ्चू गतौ।] (धियम्) ज्ञानशृङ्खलां कर्मशृङ्खलां च। [धीः इति कर्मनाम प्रज्ञानाम च। निघं० २।१, ३।९।] (साधन्ता) साधन्तौ, संसाधयन्तौ भवतः इति शेषः। [ब्रह्मैव मित्रः, क्षत्रं वरुणः। श० ४।१।४।१] ॥१॥२
राष्ट्रे ब्राह्मणाः पवित्रं ज्ञानविज्ञानबलं वर्धयन्ति क्षत्रियाश्च शत्रुभ्यो राष्ट्रं रक्षन्तीत्युन्नतिकामैरुभये सदा सत्कर्तव्याः पोषणीयाश्च ॥१॥
Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609
