Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166
न꣢꣫ तमꣳहो꣣ न꣡ दु꣢रि꣣तं꣡ देवा꣢꣯सो अष्ट꣣ म꣡र्त्य꣢म् । स꣣जो꣡ष꣢सो꣣ य꣡म꣢र्य꣣मा꣢ मि꣣त्रो꣡ नय꣢꣯ति꣣ व꣡रु꣢णो꣣ अ꣢ति꣣ द्वि꣡षः꣢ ॥४२६॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)न तमꣳहो न दुरितं देवासो अष्ट मर्त्यम् । सजोषसो यमर्यमा मित्रो नयति वरुणो अति द्विषः ॥४२६॥
न꣢ । तम् । अँ꣡हः꣢꣯ । न । दु꣣रित꣢म् । दुः꣣ । इत꣢म् । दे꣡वा꣢꣯सः । अ꣣ष्ट । म꣡र्त्य꣢꣯म् । स꣣जो꣡ष꣢सः । स꣣ । जो꣡ष꣢꣯सः । यम् । अ꣡र्यमा꣢ । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । न꣡य꣢꣯ति । व꣡रु꣢꣯णः । अ꣡ति꣢꣯ । द्वि꣡षः꣢꣯ ॥४२६॥
हिन्दी : आचार्य रामनाथ वेदालंकार
अगले मन्त्र का देवता विश्वेदेवाः है। इसमें मित्र, वरुण और अर्यमा के अनुग्रह का फल वर्णित है।
हे (देवासः) विद्वानो ! (तं मर्त्यम्) उस मनुष्य को (न अंहः) न अपराध, (न दुरितम्) न पाप (अष्ट) प्राप्त होता है, (यम्) जिसे (सजोषसः) समान प्रीतिवाले, परस्पर सामञ्जस्य रखनेवाले, (अर्यमा) मन, सूर्य वा न्यायाधीश, (मित्रः) प्राण, वायु वा मित्र और (वरुणः) आत्मा, चन्द्रमा वा राजा (द्विषः) विपत्ति, विघ्नसमूह वा शत्रुसंघ से (अति नयति) पार कर देते हैं ॥८॥
शरीर में, जड़ जगत् में, समाज में और राष्ट्र में क्रमशः जो मन, प्राण आदि, जो सूर्य आदि, जो श्रेष्ठ मित्र आदि और जो राजा आदि मुख्य हैं, उनकी रक्षा प्राप्त करके मनुष्य पापों और शत्रुओं को पराजित कर सकते हैं ॥८॥ इस दशति में इन्द्र के तथा इन्द्र से सम्बद्ध अग्नि, उषा, सोम, मित्र, वरुण और अर्यमा के गुण-कर्म वर्णित होने से इस दशति के विषय की पूर्व दशति के विषय के साथ संगति है ॥ पञ्चम प्रपाठक में प्रथम अर्ध की चतुर्थ दशति समाप्त ॥ चतुर्थ अध्याय में अष्टम खण्ड समाप्त ॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ विश्वेदेवाः देवताः। मित्रवरुणार्यम्णामनुग्रहस्य फलमाह।
हे (देवासः) विद्वज्जनाः ! (तं मर्त्यम्) तं जनम् (न अंहः) अपराधः, (न दुरितम्) न पापम् (अष्ट) अश्नुते व्याप्नोति। आष्ट इति व्याप्तिकर्मसु पठितम्। निघं० २।१८ अशू व्याप्तौ संघाते च इति धातोः लडर्थे लुङि अनिट्पक्षे रूपम्, आडभावश्छान्दसः। (यम्) जनम् (सजोषसः) सप्रीतयः, परस्परं समञ्जसाः (अर्यमा) मनः, आदित्यः, न्यायाधीशो वा, (मित्रः) प्राणः वायुः, सुहृद् वा (वरुणः) आत्मा, चन्द्रः, राजा वा (द्विषः) विपत्तेः, विघ्नसमूहात्, शत्रुसंघाद् वा (अति नयति) अति नयन्ति, पारयन्ति। अत्र वचनव्यत्ययः, ऋग्वेदे तु ‘नयन्ति’ इत्येव पाठः ॥८॥
शरीरे, जडात्मके जगति, समाजे, राष्ट्रे च क्रमशः ये मनःप्राणादयो, ये सूर्यादयो, ये सन्मित्रादयो, ये च नृपत्यमात्यादयः प्रधानभूताः सन्ति तेषां रक्षणं प्राप्य मनुष्याः पापानि शत्रूंश्च पराजेतुं शक्नुवन्ति ॥८॥ अत्रेन्द्रस्य तत्सम्बद्धानाम् अग्न्युषःसोममित्रवरुणार्यम्णां च गुणकर्मवर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन संगतिरस्तीति बोध्यम् ॥ इति पञ्चमे प्रपाठके प्रथमार्द्धे चतुर्थी दशतिः ॥ इति चतुर्थेऽध्यायेऽष्टमः खण्डः ॥
Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609
