Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166
अ꣣ग्निं꣡ तं म꣢꣯न्ये꣣ यो꣢꣫ वसु꣣र꣢स्तं꣣ यं꣡ यन्ति꣢꣯ धे꣣न꣡वः꣢ । अ꣢स्त꣣म꣡र्व꣢न्त आ꣣श꣢꣫वोऽस्तं꣣ नि꣡त्या꣣सो वा꣣जि꣢न꣣ इ꣡ष꣢ꣳ स्तो꣣तृ꣢भ्य꣣ आ꣡ भ꣢र ॥४२५॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः । अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिन इषꣳ स्तोतृभ्य आ भर ॥४२५॥
अ꣣ग्नि꣢म् । तम् । म꣣न्ये । यः꣢ । व꣡सुः꣢꣯ । अ꣡स्त꣢꣯म् । यम् । य꣡न्ति꣢꣯ । धे꣣न꣡वः꣢ । अ꣡स्त꣢꣯म् । अ꣡र्व꣢꣯न्तः । आ꣣श꣡वः꣢ । अ꣡स्त꣣म् । नि꣡त्या꣢꣯सः । वा꣣जि꣡नः꣢ । इ꣡ष꣢꣯म् । स्तो꣣तृ꣡भ्यः꣢ । आ । भ꣣र ॥४२५॥
हिन्दी : आचार्य रामनाथ वेदालंकार
अगले मन्त्र का अग्नि देवता है। सब परमेश्वर से ही शक्ति ग्रहण करते हैं, इस विषय का वर्णन है।
मैं (तम् अग्निम्) उस अग्रनायक एवं अग्नि के समान प्रकाशमान और प्रकाशक परमेश्वर की (मन्ये) अर्चना करता हूँ, (यः) जो (वसुः) सबका निवास-प्रदाता है, (अस्तम्) गृहरूप (यम्) जिसके पास (धेनवः) वाणियाँ (यन्ति) शक्ति पाने के लिए जाती हैं, (अस्तम्) गृहरूप (यम्) जिसके पास (आशवः) शीघ्रगामी (अर्वन्तः) प्राण (यन्ति) शक्ति पाने के लिए जाते हैं, (अस्तम्) गृहरूप (यम्) जिसके पास (नित्यासः) अनादि और अनन्त (वाजिनः) बलवान् आत्माएँ (यन्ति) शक्ति पाने के लिए जाती हैं। हे परमात्मन् ! तू (स्तोतृभ्यः) तेरे गुण-कर्म-स्वभाव का वर्णन करनेवालों के लिए (इषम्) अभीष्ट पदार्थों व अभीष्ट गुणों के समूह को (आ भर) प्रदान कर ॥७॥ इस मन्त्र में अग्नि परमेश्वर में ‘अस्त’ (गृह) का आरोप होने से रूपकालङ्कार है ॥७॥
परमात्मा के पास से ही सूर्य, चन्द्र, पृथिवी आदि और आत्मा, मन, चक्षु, श्रोत्र, प्राण आदि अपनी-अपनी क्रियाशक्ति पाते हैं। वही स्तोताओं के मनोरथों को पूर्ण करता है ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथाग्निर्देवता। सर्वे परमेश्वरादेव शक्तिं गृह्णन्तीत्याह।
अहम् (तम् अग्निम्) तम् अग्रनायकम् अग्निवत् प्रकाशमानं प्रकाशकं च परमेश्वरम् (मन्ये) अर्चामि। मन्यते अर्चतिकर्मा। निघं० ३।१४। (यः वसुः) सर्वेषां निवासप्रदो विद्यते, (अस्तम्) गृहरूपम् (यम् धेनवः) वाचः। धेनुरिति वाङ्नाम। निघं० १।११। (यन्ति) शक्तिप्राप्त्यर्थं गच्छन्ति। (अस्तम्) गृहरूपं यम् (आशवः) आशुगामिनः (अर्वन्तः) प्राणाः, शक्तिप्राप्त्यर्थं गच्छन्ति। (अस्तम्) गृहरूपं यम् (नित्यासः) नित्याः अनाद्यनन्ताः (वाजिनः) बलवन्तः आत्मानः, शक्तिप्राप्त्यर्थं यन्ति। हे अग्ने परमेश्वर ! त्वम् (स्तोतृभ्यः) तव गुणकर्मस्वभाववर्णनं कुर्वद्भ्यो जनेभ्यः (इषम्) अभीष्टपदार्थसमूहम् अभीष्टगुणसमूहं च। इषु इच्छायाम्, क्विपि रूपम् ‘इष्’ इति, ताम्। (आ भर) आहर ॥७॥२ अत्राग्नौ अस्तस्यारोपाद् रूपकालङ्कारः ॥७॥
परमात्मनः सकाशादेव सूर्यचन्द्रपृथिव्यादय आत्ममनश्चक्षुःश्रोत्रप्राणादयश्च स्वस्वक्रियाशक्तिं लभन्ते। स एव च स्तोतॄणां मनोरथान् पूरयति ॥७॥
Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609
