वांछित मन्त्र चुनें
आर्चिक को चुनें

Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166

अ꣡च्छा꣢ व꣣ इ꣡न्द्रं꣢ म꣣त꣡यः꣢ स्व꣣र्यु꣡वः꣢ स꣣ध्री꣢ची꣣र्वि꣡श्वा꣢ उश꣣ती꣡र꣢नूषत । प꣡रि꣢ ष्वजन्त꣣ ज꣡न꣢यो꣣ य꣢था꣣ प꣢तिं꣣ म꣢र्यं꣣ न꣢ शु꣣न्ध्युं꣢ म꣣घ꣡वा꣢नमू꣣त꣡ये꣢ ॥३७५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अच्छा व इन्द्रं मतयः स्वर्युवः सध्रीचीर्विश्वा उशतीरनूषत । परि ष्वजन्त जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये ॥३७५॥

मन्त्र उच्चारण
पद पाठ

अ꣡च्छ꣢꣯ । वः꣣ । इ꣡न्द्र꣢꣯म् । म꣣त꣡यः꣢ । स्व꣣र्यु꣡वः꣢ । स꣣ध्री꣡चीः꣢ । स꣣ । ध्री꣡चीः꣢꣯ । वि꣡श्वाः꣢꣯ । उ꣣शतीः꣢ । अ꣣नूषत । प꣡रि꣢꣯ । स्व꣣जन्त । ज꣡न꣢꣯यः । य꣡था꣢꣯ । प꣡ति꣢꣯म् । म꣡र्य꣢꣯म् । न । शु꣣न्ध्यु꣢म् । म꣣घ꣡वा꣢नम् । ऊ꣣त꣡ये꣢ ॥३७५॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 375 | (कौथोम) 4 » 2 » 4 » 6 | (रानायाणीय) 4 » 3 » 6


0 बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः जगदीश्वर की स्तुति का विषय है।

पदार्थान्वयभाषाः -

(स्वर्युवः) विवेक-प्रकाश की कामनावाली, (सध्रीचीः) मिलकर उद्यम करनेवाली, (उशतीः) प्रीतियुक्त (विश्वाः) सब (मतयः) मेरी बुद्धियाँ (इन्द्रं वः) हृदयसम्राट् आप जगदीश्वर के (अच्छ) अभिमुख होकर (अनूषत) स्तुति कर रही हैं, और वे (ऊतये) रक्षा के लिए (मर्यं न शुन्ध्युम्) अग्नि के समान शोधक, (मघवानम्) ऐश्वर्यवान्, ऐश्वर्यप्रदाता आपका (परिष्वजन्त) आलिङ्गन कर रही हैं, (जनयः) स्त्रियाँ (यथा पतिम्) जैसे पति का आलिङ्गन करती हैं ॥६॥ इस मन्त्र में दो उपमालङ्कारों की संसृष्टि है ॥६॥

भावार्थभाषाः -

जो परमेश्वर अग्नि के सदृश हमारे हृदयों का शोधक और सद्विचाररूप ऐश्वर्यों का प्रदाता है, उसके प्रति सबको अपनी मतियाँ सदा प्रवृत्त करनी चाहिएँ ॥६॥

0 बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनर्जगदीश्वरस्य स्तुतिविषयमाह।

पदार्थान्वयभाषाः -

(स्वर्युवः) विवेकप्रकाशं कामयमानाः। स्वः शब्दाद् आत्मन इच्छायां क्यचि ‘क्याच्छन्दसि। अ० ३।२।१७०’ इति उः प्रत्ययः. (सध्रीचीः) सह उद्यमशीलाः। सह अञ्चन्तीति सध्रीच्यः। ‘ऋत्विग्दधृक्०। अ० ३।२।५९’ इति क्विनि, ‘सहस्य सध्रिः। अ० ६।३।९५’ इति सहस्य सध्रिरादेशः। जसि पूर्वसवर्णदीर्घः। (उशतीः) उशत्यः प्रीतियुक्ताः। वश कान्तौ धातोः शतरि स्त्रियां रूपम्। (विश्वाः) सर्वाः (मतयः) मदीयाः मनीषाः (इन्द्रं वः२) हृदयसम्राजं जगदीश्वरं त्वाम् (अच्छ) अभिमुखीभूय। (अनूषत) स्तुवन्ति। णू स्तवने धातोर्लडर्थे लुङि छान्दसो गुणाभावो व्यत्ययेनात्मनेपदं च। ताश्च (ऊतये) रक्षार्थम् (मर्यं न शुन्ध्युम्) अग्निमिव शोधकम्। अग्निदेवताके मन्त्रे ‘स हि क्र॒तुः स मर्यः॒ स सा॒धुः’ (ऋ० १।७७।३) इति श्रवणाद् मर्यः अत्र अग्निर्विज्ञेयः। (मघवानम्) ऐश्वर्यवन्तम् ऐश्वर्यप्रदातारं च त्वाम् (परिष्वजन्त) आलिङ्गन्ति, (जनयः) स्त्रियः (यथा पतिम्) यथा भर्तारम् परिष्वजन्ते तद्वत्। परि पूर्वात् ष्वञ्जतेः लडर्थे लङि ‘बहुलं छन्दस्यमाङ्योगेऽपि। अ० ६।४।७५’ इत्यडभावः ॥६॥ अत्र द्वयोरुपमयोः संसृष्टिः ॥६॥

भावार्थभाषाः -

यः परमेश्वरोऽग्निरिवास्मद्धृदयानां शोधकः सद्विचारैश्वर्यप्रदाता च विद्यते तं प्रति सर्वैः स्वमतयः सदैव प्रवर्त्तनीयाः ॥६॥

टिप्पणी: १. ऋ० १०।४३।१, अथ० २०।१७।१। २. षष्ठीचतुर्थीद्वितीयासु बहुवचने विहितो युष्मदो वसादेशश्छन्दस्येकवचनेऽपि बहुत्र दृश्यत इति पूर्वं प्रतिपादितमेव।


Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609