Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166
आ꣢ त्वा꣣ स꣡खा꣢यः स꣣ख्या꣡ व꣢वृत्युस्ति꣣रः꣢ पु꣣रू꣡ चि꣢दर्ण꣣वां꣡ ज꣢गम्याः । पि꣣तु꣡र्नपा꣢꣯त꣣मा꣡ द꣢धीत वे꣣धा꣡ अ꣣स्मि꣡न्क्षये꣢꣯ प्रत꣣रां꣡ दीद्या꣢꣯नः ॥३४०॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)आ त्वा सखायः सख्या ववृत्युस्तिरः पुरू चिदर्णवां जगम्याः । पितुर्नपातमा दधीत वेधा अस्मिन्क्षये प्रतरां दीद्यानः ॥३४०॥
आ꣢ । त्वा꣣ । स꣡खा꣢꣯यः । स । खा꣣यः । सख्या꣢ । स꣣ । ख्या꣢ । व꣣वृत्युः । तिरः꣢ । पु꣣रु꣢ । चि꣣त् । अर्णवा꣢न् । ज꣣गम्याः । पितुः꣢ । न꣡पा꣢꣯तम् । आ । द꣣धीत । वेधाः꣢ । अ꣣स्मि꣢न् । क्ष꣡ये꣢꣯ । प्र꣣तरा꣢म् । दी꣡द्या꣢꣯नः । ॥३४०॥
हिन्दी : आचार्य रामनाथ वेदालंकार
अगले मन्त्र में इन्द्र की मित्रता का विषय है।
हे इन्द्र परमेश्वर ! (सखायः) आपके सखा स्तोता लोग सदा ही (त्वा) आपको (सख्या) सखिभाव से (आ ववृत्युः) स्वीकार करें। (तिरः) उनको प्राप्त होकर आप (पुरु चित्) बहुत अधिक (अर्णवान्) आनन्द के सागरों को (जगम्याः) प्राप्त कराओ। (वेधाः) स्तुति और पुरुषार्थ का कर्ता वह आपका सखा (अस्मिन् क्षये) इस घर में, गृहस्थाश्रम में (प्रतराम्) अत्यधिक (दीद्यानः) तेज और यश से प्रदीप्त होता हुआ (पितुः) अपने पिता के, वैसे ही तेजस्वी और यशस्वी (नपातम्) पौत्र को अर्थात् अपने पुत्र को (आदधीत) उत्पन्न करे ॥९॥
जो जगदीश्वर से मित्रता जोड़ता है, उसे वह आनन्द-सागर में निमग्न कर देता है। जगदीश्वर का वह सखा शास्त्रोक्त विधि से गृहस्थाश्रम का पालन करता हुआ अपने अनुरूप तेजस्वी और यशस्वी पुत्र का पिता बनता है ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथेन्द्रसख्यविषयमाह।
हे इन्द्र परमेश्वर ! (सखायः) तव सहचराः स्तोतृजनाः सदैव (त्वा) त्वाम् (सख्या) सख्येन। सख्यशब्दात् तृतीयैकवचने ‘सुपां सुलुक्०। अ० ७।१।३९’ इति विभक्तेराकारादेशः। (आ ववृत्युः) स्वीकुर्युः। आङ् पूर्वात् वृतु वर्तने धातोश्छन्दसि शपः श्लौ लिङि रूपम्। (तिरः) तान् प्राप्तः, त्वम्। तिरः सतः इति प्राप्तस्य। निरु० ३।२०। (पुरु चित्) बहु यथा स्यात् तथा (अर्णवान्) आनन्दसागरान् (जगम्याः) प्रापय। गम्लृ गतौ धातोर्यङ्लुगन्तस्य लिङि रूपम्। अभ्यासस्य छान्दसो नुमभावः। (वेधाः) स्तुतेः पुरुषार्थस्य च विधाता स तव सखा (अस्मिन् क्षये) एतस्मिन् गृहे गृहस्थाश्रमे इत्यर्थः (प्रतराम्) अत्यधिकं (दीद्यानः) तेजसा यशसा च दीप्यमानः सन्। दीदयतिः ज्वलतिकर्मा। निघं० १।१६। (पितुः) स्वजनकस्य (नपातम्२) तादृशमेव तेजस्विनं यशस्विनं च नप्तारं, स्वकीयं पुत्रम् इत्यर्थः। (आदधीत) उत्पादयेत् ॥९॥
जो जगदीश्वरेण सख्यं बध्नाति तं स आनन्दसागरे निमग्नं करोति। जगदीश्वरस्य स सखा शास्त्रोक्तविधिना गृहस्थाश्रमं पालयन् स्वानुरूपस्य तेजस्विनो यशस्विनश्च तनयस्य पिता जायते ॥९॥
Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609
