Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166
इ꣡न्द्रा꣢य꣣ गि꣢रो꣣ अ꣡नि꣢शितसर्गा अ꣣पः꣡ प्रै꣢꣯रय꣣त्स꣡ग꣢रस्य꣣ बु꣡ध्ना꣢त् । यो꣡ अक्षे꣢꣯णेव च꣣क्रि꣢यौ꣣ श꣡ची꣢भि꣣र्वि꣡ष्व꣢क्त꣣स्त꣡म्भ꣢ पृथि꣣वी꣢मु꣣त꣢ द्याम् ॥३३९॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)इन्द्राय गिरो अनिशितसर्गा अपः प्रैरयत्सगरस्य बुध्नात् । यो अक्षेणेव चक्रियौ शचीभिर्विष्वक्तस्तम्भ पृथिवीमुत द्याम् ॥३३९॥
इ꣡न्द्रा꣢꣯य । गि꣡रः꣢꣯ । अ꣡नि꣢꣯शितसर्गाः । अ꣡नि꣢꣯शित । स꣣र्गाः । अपः꣢ । प्र । ऐ꣣रयत् । स꣡ग꣢꣯रस्य । स । ग꣣रस्य । बु꣡ध्ना꣢꣯त् । यः । अ꣡क्षे꣢꣯ण । इ꣣व । चक्रि꣡यौ꣢ । श꣡ची꣢꣯भिः । वि꣡ष्व꣢꣯क् । वि । स्व꣣क् । तस्त꣡म्भ꣢ । पृ꣣थि꣢वीम् । उ꣣त꣢ । द्याम् ॥३३९॥
हिन्दी : आचार्य रामनाथ वेदालंकार
अगले मन्त्र में इन्द्र परमात्मा की महिमा का वर्णन है।
(इन्द्राय) परमैश्वर्यवान् जगदीश्वर के लिए अर्थात् उसकी महिमा का गान करने के लिए (अनिशितसर्गाः) अतीक्ष्ण प्रयोगवाली अर्थात् मधुर (गिरः) मेरी स्तुतिवाणियाँ प्रवृत्त हों। जो जगदीश्वर (सगरस्य) अन्तरिक्ष के (बुध्नात्) शीर्षस्थान से (अपः) मेघ-जलों को (प्रैरयत्) भूमि की ओर प्रेरित करता अर्थात् भूमि पर बरसाता है। (यः) जो (विष्वक्) विविध कर्मों में संलग्न होता हुआ अथवा विशेषरूप से सर्वान्तर्यामी होता हुआ (शचीभिः) अपने बुद्धिकौशल से व जगद्धारण की क्रियाओं से (पृथिवीम्) भूमि को (उत) और (द्याम्) द्यौ लोक को (तस्तम्भ) थामे हुए है, परस्पर सन्तुलित कर रहा है, (इव) जैसे (अक्षेण) रथ के बीच में पड़ी हुई कीली के द्वारा (चक्रियौ) दोनों रथचक्रों को रथचालक थामे रखता है ॥८॥ इस मन्त्र में उपमालङ्कार है ॥८॥
परमात्मा की ही यह विलक्षण महिमा है कि वह अन्तरिक्ष से वर्षा करता है और द्यावापृथिवी में परस्पर सामञ्जस्य स्थापित करता है ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथेन्द्रस्य परमात्मनो महिमानं वर्णयति।
(इन्द्राय) परमैश्वर्यवते जगदीश्वराय, तन्महिमानं गातुमित्यर्थः (अनिशितसर्गाः२) अतीक्ष्णप्रयोगाः, मधुरा इत्यर्थः। शो तनूकरणे। अनिशितः अतनूकृतः अतीक्ष्णः सर्गो व्याहरणं यासां ताः। (गिरः) मदीयाः स्तुतिवाचः, प्रवृत्ताः सन्त्विति शेषः। यः (सगरस्य) अन्तरिक्षस्य। सगर इत्यन्तरिक्षनाम। निघं० १।३। गृणाति शब्दं करोतीति गरो मेघः, गरेण मेघेन सहितः इति सगरोऽन्तरिक्षम्। (बुध्नात्) शीर्षस्थानात् (अपः) मेघस्थानि उदकानि (प्रैरयत्) भुवं प्रति प्रेरयति। (विष्वक्३) विविधकर्मरतः विशेषेण सर्वान्तर्यामी वा सन्। वि-सु-उपपदात् अञ्चतेः क्विपि रूपम्, यद्वा यो विशेषेण स्वजते आलिङ्गति सर्वान् पदार्थान् स विष्वक् सर्वान्तर्यामी, ष्वज परिष्वङ्गे। (यः) यश्च (शचीभिः) प्रज्ञाभिः जगद्धारणक्रियाभिश्च। शचीति प्रज्ञानाम कर्मनाम च। निघं० ३।९, २।१। (पृथिवीम्) भूमिम् (उत) अपि च (द्याम्) द्युलोकम् (तस्तम्भ) स्तभ्नाति, परस्परं सन्तुलिते करोति। (अक्षेण इव) मध्यकीलकेन यथा (चक्रियौ४) उभे रथचक्रे रथचालकः स्तभ्नाति तद्वत्। चक्रवाचिनः चक्रिशब्दस्य द्वितीयाद्विवचने चक्री इति प्राप्ते छान्दस इयङादेशः ॥८॥ अत्रोपमालङ्कारः ॥८॥
परमात्मन एवैष विलक्षणो महिमा यत् सोऽन्तरिक्षाद् वृष्टिं करोति, द्यावापृथिव्योश्च परस्परं सामञ्जस्यं स्थापयति ॥८॥
Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609
