वांछित मन्त्र चुनें
आर्चिक को चुनें

Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166

तं꣡ त्वा꣢ गो꣣प꣡व꣢नो गि꣣रा꣡ जनि꣢꣯ष्ठदग्ने अङ्गिरः । स꣡ पा꣢वक श्रुधी꣣ ह꣡व꣢म् ॥२९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

तं त्वा गोपवनो गिरा जनिष्ठदग्ने अङ्गिरः । स पावक श्रुधी हवम् ॥२९॥

मन्त्र उच्चारण
पद पाठ

त꣢म् । त्वा꣣ । गो꣣प꣡व꣢नः । गि꣣रा꣢ । ज꣡नि꣢꣯ष्ठत् । अ꣣ग्ने । अङ्गिरः । सः꣢ । पा꣣वक । श्रुधी । ह꣡व꣢꣯म् ॥२९॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 29 | (कौथोम) 1 » 1 » 3 » 9 | (रानायाणीय) 1 » 3 » 9


0 बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

कौन उस परमात्मा को हृदय में प्रकट करता है, यह कहते हैं।

पदार्थान्वयभाषाः -

हे (अङ्गिरः) मेरे प्राणभूत (अग्ने) ज्ञान के सूर्य, जगन्नेता परमात्मन् ! (तम्) उस समस्त गुणगणों से युक्त (त्वा) आपको (गो-पवनः) इन्द्रियरूप या वाणीरूप गौओं का शोधक, पवित्रेन्द्रिय, पूतवाक् स्तोता, अथवा (गोप-वनः) आत्मसेवी स्तोता (गिरा) स्तुतिवाणी या वेदवाणी से (जनिष्ठत्) अपने अन्तःकरण में प्रकट करता है। हे (पावक) शुद्धिकर्त्ता देव ! (सः) वह तू (हवम्) मेरे आह्वान को (श्रुधि) सुन ॥९॥

भावार्थभाषाः -

परमेश्वर अव्यक्तरूप से सबके हृदय में सन्निविष्ट है। उसे पवित्रेन्द्रिय, पवित्र वाणीवाला, आत्मसेवी मनुष्य ही वेदमन्त्रों से स्तुति करता हुआ प्रकट करने में समर्थ होता है और परमेश्वर प्रकट होकर हृदय को पवित्र करता है ॥९॥

0 बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ कस्तं परमात्मानं हृदये प्रकटयतीत्याह।

पदार्थान्वयभाषाः -

हे (अङ्गिरः२) मत्प्राणभूत। प्राणो वा अङ्गिराः श० ६।३।७।३। (अग्ने) ज्ञानसूर्य जगन्नेतः परमात्मन् ! (तम्) तादृशं निखिलगुणसमन्वितम् (त्वा) त्वाम् (गोपवनः) गवामिन्द्रियाणां वाचां वा पवनः शोधयिता गो-पवनः पवित्रेन्द्रियः पूतवाक्, यद्वा गाः इन्द्रियाणि पाति रक्षतीति गोपः आत्मा तं वनति सेवते इति गोप-वनः आत्मसेवी स्तोता (गिरा) स्तुतिवाचा वेदवाण्या वा (जनिष्ठत्) जनयति स्वान्तःकरणे प्रकटयति। जनी प्रादुर्भावे धातोर्ण्यन्ताल्लेटि जनिषत् इति प्राप्ते बहुलवचनात् ठकारागमश्छान्दसः। हे (पावक) शुद्धिकर्त्तः देव ! (सः) तादृशस्त्वम् (हवम्) मदीयाह्वानम्। हवं ह्वानमिति निरुक्तम् १०।२ ह्वेञ् धातोः बहुलं छन्दसि।’ अ० ६।१।३४ इति सम्प्रसारणे सति उकारान्तत्वाद् दोरप्।’ अ० ३।३।५७ इत्यप् प्रत्ययः। (श्रुधि) शृणु। श्रु श्रवणे धातोः श्रुशृणुपॄकृवृभ्यश्छन्दसि।’ अ० ६।४।१०२ इति हेर्धिः। अन्येषामपि दृश्यते’ अ० ६।३।१३ इति संहितायां दीर्घः ॥९॥

भावार्थभाषाः -

परमेश्वरोऽव्यक्तरूपेण सर्वेषां हृदि सन्निविष्टः। तं पवित्रेन्द्रियः पूतवाग् आत्मसेवी जन एव वेदमन्त्रैः स्तुवन् प्रकटयितुं समर्थो भवति। परमेश्वरश्च प्रकटीभूय हृदयं पुनाति ॥९॥

टिप्पणी: १. ऋ० ८।७४।११ तन्त्वा, जनिष्ठदग्ने इत्यत्र क्रमेण यं त्वा, चनिष्ठदग्ने इति पाठः। २. ‘अङ्गिरः अङ्गानि शरीरावयवाः, तद्वत् अङ्गि शरीरम्, तस्य स्थितिहेतुरशितपीतरसः, तत्करोतीति णिच् अङ्गिरसयति। जाठरो ह्यग्निः अन्नं रसीकरोति। तस्य सम्बोधनं हे अङ्गिरः शरीरस्थितिहेतोरशितपीतरसस्य कर्त्तः इत्यर्थः—इति वि०। अङ्गिरः अङ्गिरसः पुत्रः अङ्गिरसां वा एकोग्निः (ऐ० ब्रा० ६।३४) इति ऐतरेयकम्। अगेर्वा अङ्गिराः। गन्तव्यं सर्वत्र—इति भ०। अङ्गिरः सर्वत्र गन्तः अङ्गिरसां पुत्रो वा—इति सा०।


Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609