वांछित मन्त्र चुनें
आर्चिक को चुनें

Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166

इ꣡न्द्र꣢ इ꣣षे꣡ द꣢दातु न ऋभु꣣क्ष꣡ण꣢मृ꣣भु꣢ꣳ र꣣यि꣢म् । वा꣣जी꣡ द꣢दातु वा꣣जि꣡न꣢म् ॥१९९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्र इषे ददातु न ऋभुक्षणमृभुꣳ रयिम् । वाजी ददातु वाजिनम् ॥१९९॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्रः꣢꣯ । इ꣣षे꣢ । द꣣दातु । नः । ऋभुक्ष꣡ण꣢म् । ऋ꣣भु । क्ष꣡ण꣢꣯म् । ऋ꣣भु꣢म् । ऋ꣣ । भु꣢म् । र꣣यि꣢म् । वा꣣जी꣢ । द꣣दातु । वाजि꣡न꣢म् ॥१९९॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 199 | (कौथोम) 3 » 1 » 1 » 6 | (रानायाणीय) 2 » 9 » 6


0 बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में इन्द्र हमें क्या-क्या दे, इसकी प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

(इन्द्रः) सब ऐश्वर्यों का खजाना और सब ऐश्वर्य प्रदान करने में समर्थ परमेश्वर (इषे) राष्ट्र की प्रगति, अभ्युदय, अभीष्टसिद्धि और मोक्ष की प्राप्ति के लिए (नः) हमें (ऋभुम्) अति तेजस्वी, सत्य से भासमान, सत्यनिष्ठ, मेधावी, विद्वान् ब्राह्मण और (ऋभुक्षणम्) मेधावियों का निवासक, महान् (रयिम्) धन (ददातु) प्रदान करे। (वाजी) बलवान् वह (वाजिनम्) बली, राष्ट्ररक्षाकुशल क्षत्रिय (ददातु) प्रदान करे ॥६॥ इस मन्त्र में ‘ददातु’ और ‘ऋभु’ शब्दों की पुनरुक्ति में लाटानुप्रास अलङ्कार है। ‘वाजी, वाजि’ में छेकानुप्रास है ॥६॥

भावार्थभाषाः -

परमेश्वर की कृपा से हमारे राष्ट्र में सत्यशील, उपदेशकुशल, मेधावी, विज्ञानवान्, ब्रह्मवर्चस्वी ब्राह्मण, बली, धनुर्विद्या में पारङ्गत, रोगों से आक्रान्त न होनेवाले, महारथी, राष्ट्ररक्षा में समर्थ, विजयशील शूरवीर क्षत्रिय और कृषि एवं व्यापार में प्रवीण, धनवान्, दानशील वैश्य उत्पन्न हों। सब राष्ट्रवासी धनपति होकर प्रगति और अभ्युदय को प्राप्त करते हुए आनन्द के साथ धर्मपूर्वक जीवन व्यतीत करते हुए मोक्ष के लिए प्रयत्न करते रहें ॥६॥

0 बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथेन्द्रोऽस्मभ्यं किं किं ददात्विति प्रार्थ्यते।

पदार्थान्वयभाषाः -

(इन्द्रः) सर्वैश्वर्यनिधिः सर्वैश्वर्यप्रदानक्षमः परमेश्वरः (इषे) राष्ट्रस्य प्रगतये, अभ्युदयाय, अभीष्टसिद्धये, निःश्रेयसस्य च प्राप्तये। इष गतौ दिवादिः, इषु इच्छायाम् तुदादिः। भावे क्विप् प्रत्ययः। (नः) अस्मभ्यम् (ऋभुम्) उरु भान्तम्, ऋतेन भान्तम्, ऋतेन भवन्तं वा मेधाविनं विद्वांसं ब्राह्मणम्। ऋभुः इति मेधाविनाम। निघं० ३।१५। ऋभवः उरु भान्तीति वा, ऋतेन भान्तीति वा, ऋतेन भवन्तीति वा। निरु० ११।१६। (ऋभुक्षणम्) यः ऋभून् मेधाविनः क्षाययति निवासयति तम्२, महान्तम्। ऋभुपूर्वः क्षि निवासगत्योः तुदादिः। ऋभुक्षा इति महन्नाम। निघं० ३।३। (रयिम्३) धनं च। रयिः इति धननाम। निघं० २।१०। (ददातु) प्रयच्छतु। (वाजी) बलवान् सः। वाज इति बलनाम। निघं० २।९। (वाजिनम्) बलवन्तं राष्ट्ररक्षाकुशलं क्षत्रियम् (ददातु) प्रयच्छतु। यथोक्तमन्यत्रापि—“आ ब्रह्म॑न् ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मा रा॒ष्ट्रे रा॑ज॒न्यः᳕ शूर॑ इष॒व्यो॒ऽतिव्या॒धी म॑हार॒थो जा॑यता॒म्।” य० २२।२२ इति ॥६॥ अत्र ‘ददातु, ऋभु’ इत्यनयोःपुनरुक्तौ लाटानुप्रासोऽलङ्कारः। ‘वाजी, वाजि’ इत्यत्र च छेकानुप्रासः ॥६॥

भावार्थभाषाः -

परमेशकृपयाऽस्माकं राष्ट्रे सत्यशीला उपदेशकुशला मेधाविनो विज्ञानवन्तो ब्रह्मवर्चस्विनो ब्राह्मणाः, बलवन्तो धनुर्विद्यापारंगता अतिव्याधयो महारथा राष्ट्ररक्षणक्षमा विजयशीलाः शूराः क्षत्रियाः, कृषिव्यापारप्रवीणा धनवन्तो दानशीला वैश्याश्च जायन्ताम्। सर्वे राष्ट्रवासिनो रयीणां पतयो भूत्वा प्रगतिमभ्युदयं च प्राप्नुवन्तः सानन्दं धर्मपूर्वकं जीवनं यापयन्तो निःश्रेयसाय प्रयतेरन् ॥६॥

टिप्पणी: १. ऋ० ८।९३।३४, ऋषिः सुकक्षः, देवता इन्द्रः ऋभवश्च। २. अयमर्थः ऋ० १।१११।४ इत्यस्य दयानन्दभाष्याद् गृहीतः। ३. ऋभुक्षणं महान्तम् ऋभुं मेधाविनं रयिं पुत्रलक्षणं च धनम्—इति वि०। सायणेन, वैकल्पिकत्वेन भरतस्वामिनापि च सुधन्वनः पुत्रस्य ऋभोः पक्षेऽपि व्याख्यातम्।


Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609