Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166
त꣡त्स꣢वि꣣तु꣡र्व꣢꣯रेण्यं꣣ भ꣡र्गो꣢ दे꣣व꣡स्य꣢ धीमहि । धि꣢यो꣣ यो꣡ नः꣢ प्रचो꣣द꣡या꣢त् ॥१४६२॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥१४६२॥
त꣢त् । स꣣वितुः꣢ । व꣡रे꣢꣯ण्यम् । भ꣡र्गः꣢꣯ । दे꣣व꣡स्य꣢ । धी꣣महि । धि꣡यः꣢꣯ । यः । नः꣣ । प्रचोद꣡या꣢त् । प्र꣣ । चोद꣡या꣢त् ॥१४६२॥
हिन्दी : आचार्य रामनाथ वेदालंकार
प्रथम मन्त्र में सविता परमेश्वर की उपासना का विषय वर्णित है।
ऋचा में तीन पाद हैं। ‘प्रत्येक वेद से एक-एक पाद दुहा गया है।’ (मनु० २।७७) मनु के इस वचन के आधार पर प्रत्येक पाद का पृथक् अर्थ देखते हैं। १. (सवितुः) सकल जगत् की उत्पत्ति करनेवाले, सब शुभगुणों के प्रेरक परमात्मा का (तत्) वह प्रसिद्ध तेज (वरेण्यम्) वरणीय है। २. (देवस्य) दाता, प्रकाशमान और प्रकाशक उस परमात्मा के (भर्गः) तेज को, हम (धीमहि) धारण करें वा ध्यावें। ३. (यः) जो सविता प्रभु (नः) हमारे (धियः) प्रज्ञाओं और कर्मों को (प्रचोदयात्) सन्मार्ग पर प्रेरित करे ॥१॥
सकल जगत् के स्रष्टा, सूर्य के समान सबके अन्तः करण को प्रकाशित करनेवाले, सर्वान्तर्यामी परमेश्वर के तेजों के ध्यान और धारण करने से वह उपासक की बुद्धियों और क्रियाओं को सन्मार्ग में प्रेरित करके उसे सुखी करता है ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार
तत्रादौ सवितुः परमेश्वरस्योपासनाविषयमाह।
अत्र त्रयः पादाः। त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् (मनु० २।७७) इति मनूक्तदिशा प्रतिपादं पृथगर्थोऽध्यवसेयः। (सवितुः) सर्वजगदुत्पादकस्य, सर्वशुभगुणप्रेरकस्य परमात्मनः (तत्) प्रसिद्धं ज्योतिः (वरेण्यम्) वरणीयं वर्तते इति शेषः ॥ (देवस्य) दातुः प्रकाशमानस्य प्रकाशयितुश्च तस्य परमात्मनः (भर्गः) तेजः, वयम् (धीमहि) दधीमहि ध्यायेम वा ॥ (यः) सविता देवः परमेश्वरः (नः) अस्माकम् (धियः) प्रज्ञाः कर्माणि च (प्रचोदयात्) सन्मार्गे प्रेरयेत् ॥१॥२ [(सवितुः) यः सर्वं जगत् सवति सूते वा, सर्वाणि शुभगुणकर्माणि सुवति च स सविता, तस्य। षु प्रसवैश्यर्ययोः भ्वादिः, षूङ् प्राणिगर्भविमोचने अदादिः, षू प्रेरणे तुदादिः। (वरेण्यम्) वृञ् वरणे धातोः ‘वृञ एण्यः’ उ० ३।९८ इति एण्यप्रत्ययः। (देवस्य) देवो दानाद् वा दीपनाद् वा द्योतनाद् वा। निरु० ७।१५। (भर्गः३) भृजी भर्जने। ‘अञ्च्यञ्जियुजिभृजिभ्यः कुश्च।’ उ० ४।२।१७ इत्यसुन् प्रत्ययः धातोर्जकारस्य कुत्वं च। (धीमहि४) अत्र डुधाञ् धातोर्लिङि ‘छन्दस्युभयथा’ अ० ३।४।११७ इत्यार्धधातुकत्वात् शप् न आकारस्य ईत्वं च। (धियः५) धीः इति कर्मनाम प्रज्ञानाम च। निघं० २।१, ३।९। (प्रचोदयात्) प्र पूर्वः चुद प्रेरणे, लेटि ‘लेटोऽडाटौ’ अ० ३।४।९४ इत्याडागमः। ‘इतश्च लोपः परस्मैपदेषु’ अ० ३।४।९७ इति तिपः इकारस्य लोपः।]
सर्वजगत्स्रष्टुः सूर्यस्येव सर्वान्तःकरणप्रकाशकस्य सर्वान्तर्यामिनः परमेश्वरस्य तेजसां ध्यानेन धारणेन च स उपासकस्य बुद्धीः कर्माणि च सन्मार्गे प्रेरयित्वा तं सुखयति ॥१॥
Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609
