Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166
शू꣢रो꣣ न꣡ ध꣢त्त꣣ आ꣡यु꣢धा꣣ गभस्त्योः꣣ स्वाः꣢३ सि꣡षा꣢सन्रथि꣣रो꣡ गवि꣢꣯ष्टिषु । इ꣡न्द्र꣢स्य꣣ शु꣡ष्म꣢मी꣣र꣡य꣢न्नप꣣स्यु꣢भि꣣रि꣡न्दु꣢र्हिन्वा꣣नो꣡ अ꣢ज्यते मनी꣣षि꣡भिः꣢ ॥१२२९॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)शूरो न धत्त आयुधा गभस्त्योः स्वाः३ सिषासन्रथिरो गविष्टिषु । इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः ॥१२२९॥
शू꣡रः꣢꣯ । न । ध꣣त्ते । आ꣡यु꣢꣯धा । ग꣡भ꣢꣯स्त्योः । स्वाऽ३रि꣡ति꣢ । सि꣡षा꣢꣯सन् । र꣣थिरः꣢ । ग꣡वि꣢꣯ष्टिषु । गोइ꣣ष्टिषु । इ꣡न्द्र꣢꣯स्य । शु꣡ष्म꣢꣯म् । ई꣣र꣡य꣢न् । अ꣣पस्यु꣡भिः꣢ । इ꣡न्दुः꣢꣯ । हि꣣न्वानः꣢ । अ꣣ज्यते । मनीषि꣡भिः꣢ ॥१२२९॥
हिन्दी : आचार्य रामनाथ वेदालंकार
अगले मन्त्र में परमात्मा के कृत्य वर्णित हैं।
वह सोम परमेश्वर (गभस्त्योः) आकाश व भूमि रूप हाथों में (आयुधा) जलों को (धत्ते) धारण करता है, (शूरः न) जैसे शूरवीर मनुष्य (गभस्त्योः) हाथों में (आयुधा) शस्त्रास्त्रों को (धत्ते) धारण करता है। (रथिरः) रथारोही सेनापति के समान (गविष्टिषु) देवासुरसङ्ग्रामों में (स्वः) विजय-सुख को (सिषासन्) देना चाहता हुआ, (इन्द्रस्य) जीवात्मा के (शुष्मम्) बल को (ईरयन्) उन्नत करता हुआ, (हिन्वानः) वृद्धि प्रदान करता हुआ (इन्दुः) तेजस्वी परमेश्वर (अपस्युभिः) कर्मप्रिय, (मनीषिभिः) बुद्धिमान् स्तोताओं द्वारा (अज्यते) अन्तरात्मा में प्रकट किया जाता है ॥२॥ यहाँ श्लिष्टोपमा अलङ्कार है, ‘रथिरः’ में लुप्तोपमा है ॥२॥
प्रकाशप्रदाता, वृष्टिप्रदाता, विजयप्रदाता, बलप्रदाता और वृद्धिप्रदाता परमेश्वर भला किसका वन्दनीय नहीं है ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ परमात्मकृत्यानि वर्णयति।
स सोमः परमेश्वरः (गभस्त्योः) द्यावापृथिवीरूपयोः हस्तयोः (आयुधा२) आयुधानि उदकानि। [आयुधानि इत्युदकनामसु पठितम्। निघं० १।१२] (धत्ते) धारयति। कथमिव ? (शूरः न) वीरो यथा (गभस्त्योः) हस्तयोः (आयुधा) आयुधानि शस्त्रास्त्राणि (धत्ते) धारयति। [गभस्ती इति बाहुनामसु पठितम् निघं० २।४।] (रथिरः) रथारूढः सेनापतिरिव (गविष्टिषु) देवासुरसंग्रामेषु। [शत्रुभिरपहृतानां गवाम् इष्टिः प्राप्तिर्यासु ता गविष्टयः सङ्ग्रामाः।] (स्वः) विजयसुखम् (सिषासन्) दित्सन्, (इन्द्रस्य) जीवात्मनः (शुष्मम्) बलम् (ईरयन्) उन्नयन्, (हिन्वानः) वृद्धिं प्रयच्छन्। [हि गतौ वृद्धौ च, आत्मनेपदं छान्दसम्।] (इन्दुः) तेजस्वी परमेश्वरः (अपस्युभिः) कर्मप्रियैः। [अपांसि कर्माणि आत्मनः कामयन्ते इति अपस्युवः तैः। अपः इति कर्मनाम। निघं० २।१।] (मनीषिभिः) मेधाविभिः स्तोतृजनैः (अज्यते) अन्तरात्मनि प्रकटीक्रियते। [अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु, कर्मणि रूपम्] ॥२॥ अत्र श्लिष्टोपमालङ्कारः, ‘रथिरः’ इत्यत्र च लुप्तोपमा ॥२॥
प्रकाशप्रदाता वृष्टिप्रदाता विजयप्रदाता बलप्रदाता वृद्धिप्रदाता च परमेश्वरः कस्य न वन्दनीयः ? ॥२॥
Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609
