वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣡त्या꣢ हिया꣣ना꣢꣫ न हे꣣तृ꣢भि꣣र꣡सृ꣢ग्रं꣣ वा꣡ज꣢सातये । वि꣢꣫ वार꣣म꣡व्य꣢मा꣣श꣡वः꣢ ॥११९१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अत्या हियाना न हेतृभिरसृग्रं वाजसातये । वि वारमव्यमाशवः ॥११९१॥

मन्त्र उच्चारण
पद पाठ

अ꣡त्याः꣢꣯ । हि꣣यानाः꣢ । न । हे꣣तृ꣡भिः꣢ । अ꣡सृ꣢꣯ग्रम् । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये । वि꣢ । वा꣡र꣢꣯म् । अ꣡व्य꣢꣯म् । आ꣣श꣡वः꣢ ॥११९१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1191 | (कौथोम) 5 » 1 » 3 » 5 | (रानायाणीय) 9 » 2 » 1 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अब आनन्द-रसों का वर्णन करते हैं।

पदार्थान्वयभाषाः -

(वाजसातये) संग्राम के लिए (हेतृभिः) प्रेरक योद्धाओं से (हियानाः) प्रेरित किये जाते हुए (अत्याः न) घोड़ों के समान (हेतृभिः) प्रेरक योगाभ्यासों से (हियानाः) प्रेरित किये जाते हुए (आशवः) वेगगामी सोम अर्थात् परमानन्दरस (वाजसातये) बल देने के लिए (वारम्) दोषनिवारक, (अव्यम्) अविनश्वर जीवात्मा के प्रति (वि असृग्रम्) छोड़े जा रहे हैं ॥५॥ यहाँ श्लिष्टोपमा अलङ्कार है ॥५॥

भावार्थभाषाः -

शीघ्रगामी बलवान् घोड़े जैसे युद्ध में विजय के साधन बनते हैं, वैसे ही योगाभ्यास से उत्पन्न किये गए परम आनन्द बल-प्रदान में कारण बनते हैं ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथानन्दरसान् वर्णयति।

पदार्थान्वयभाषाः -

(वाजसातये) संग्रामाय। [वाजसातिः इति संग्रामनाम। निघं० २।१७।] (हेतृभिः) प्रेरकैः योद्धृभिः (हियानाः) प्रेर्यमाणाः। [हि गतौ वृद्धौ च, कर्मणि रूपम्।] (अत्याः२ न) अश्वाः इव। [अत्यः इत्यश्वनाम। निघं० १।१४।] (हेतृभिः) प्रेरकैः योगाभ्यासैः (हियानाः) प्रेर्यमाणाः (आशवः) आशुगामिनः सोमाः परमानन्दरसाः (वाजसातये) बलप्रदानाय (वारम्) दोषनिवारकम् (अव्यम्) अव्ययम् अविनश्वरं जीवात्मानं प्रति (वि असृग्रम्) विसृज्यन्ते ॥५॥ अत्र श्लिष्टोपमालङ्कारः ॥५॥

भावार्थभाषाः -

क्षिप्रगामिनो बलवन्तोऽश्वा यथा संग्रामे विजयसाधनतां यान्ति तथा योगाभ्यासजनिताः परमानन्दा आत्मबलप्रदाने कारणतां प्रपद्यन्ते ॥५॥

टिप्पणी: १. ऋ० ९।१३।६। २. सायणस्तु ‘अति आ’ इति विच्छिद्य व्याख्यातवान्, तत्तु पदकारविरुद्धम्। ऋग्वेदभाष्ये तु तेनापि ‘अत्याः न अश्वाः इव’ इत्युचितमेव व्याख्यातम्। अत्राह सामश्रमी—“व्यत्यसृग्रम् इत्यत्र ऋगादिपादाद् ‘अति’ इत्युपसर्गः, ऋक्तृतीयपादाद् ‘वि’ इत्युपसर्गश्च सङ्गृहीतः ‘व्यत्या’ इति श्रुतौ ‘आ’ पदस्यानर्थक्यमपि स्वीकृतमाचार्येण (सायणेन)। विवरणकृता तु ‘अहि’ नाम दानव इत्यादिना व्याख्यातम्। परन्तूभयविधमेव व्याख्यानं पदग्रन्थविरुद्धत्वादुपेक्षणीयम्। तत्र हि ‘अ꣡त्याः, हि꣣यानाः꣡’, इति पाठदर्शनात्” इति।