स्व॒यं चि॒त्स म॑न्यते॒ दाशु॑रि॒र्जनो॒ यत्रा॒ सोम॑स्य तृ॒म्पसि॑ । इ॒दं ते॒ अन्नं॒ युज्यं॒ समु॑क्षितं॒ तस्येहि॒ प्र द्र॑वा॒ पिब॑ ॥
svayaṁ cit sa manyate dāśurir jano yatrā somasya tṛmpasi | idaṁ te annaṁ yujyaṁ samukṣitaṁ tasyehi pra dravā piba ||
स्व॒यम् । चि॒त् । सः । म॒न्य॒ते॒ । दाशु॑रिः । जनः॑ । यत्र॑ । सोम॑स्य । तृ॒म्पसि॑ । इ॒दम् । ते॒ । अन्न॑म् । युज्य॑म् । सम्ऽउ॑क्षितम् । तस्य॑ । इ॒हि॒ । प्र । द्र॒व॒ । पिब॑ ॥ ८.४.१२
शिव शंकर शर्मा
ईश्वर की कृपा से क्या होता है, यह इससे दिखलाते हैं।
आर्यमुनि
अब कर्मयोगी का सोमरसपान करना कथन करते हैं।
हरिशरण सिद्धान्तालंकार
सोमरक्षण के तीन लाभ
शिव शंकर शर्मा
ईश्वरकृपया किं भवतीत्यनया दर्शयति।
आर्यमुनि
अथ कर्मयोगिनः सोमरसपानं वर्ण्यते।
