अ॒स्येदिन्द्रो॑ वावृधे॒ वृष्ण्यं॒ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि । अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति पू॒र्वथा॑ ॥
asyed indro vāvṛdhe vṛṣṇyaṁ śavo made sutasya viṣṇavi | adyā tam asya mahimānam āyavo nu ṣṭuvanti pūrvathā ||
अ॒स्य । इत् । इन्द्रः॑ । व॒वृ॒धे॒ । वृष्ण्य॑म् । शवः॑ । मदे॑ । सु॒तस्य॑ । विष्ण॑वि । अ॒द्य । तम् । अ॒स्य॒ । म॒हि॒मान॑म् । आ॒यवः॑ । अनु॑ । स्तु॒व॒न्ति॒ । पू॒र्वऽथा॑ ॥ ८.३.८
शिव शंकर शर्मा
आजकल के मनुष्य भी उसको गाते हैं, यह शिक्षा इससे देते हैं।
आर्यमुनि
अब कर्मयोगी के आचरण का अनुष्ठान करना कथन करते हैं।
हरिशरण सिद्धान्तालंकार
वृष्ण्यं शवः
शिव शंकर शर्मा
अद्यतना अपि तं गायन्तीत्यनया शिक्षते।
आर्यमुनि
अथ जनाः कर्मसु कर्मयोगिनमनुसरन्तीति कथ्यते।
