कण्वा॑ इव॒ भृग॑व॒: सूर्या॑ इव॒ विश्व॒मिद्धी॒तमा॑नशुः । इन्द्रं॒ स्तोमे॑भिर्म॒हय॑न्त आ॒यव॑: प्रि॒यमे॑धासो अस्वरन् ॥
kaṇvā iva bhṛgavaḥ sūryā iva viśvam id dhītam ānaśuḥ | indraṁ stomebhir mahayanta āyavaḥ priyamedhāso asvaran ||
कण्वाः॑ऽइव । भृग॑वः । सूर्या॑ऽइव । विश्व॑म् । इत् । धी॒तन् । आ॒न॒शुः॒ । इन्द्र॑म् । स्तोमे॑भिः । म॒हय॑न्तः । आ॒यवः॑ । प्रि॒यऽमे॑धासः । अ॒स्व॒र॒न् ॥ ८.३.१६
शिव शंकर शर्मा
सब विद्वान् इन्द्र की ही स्तुति करते हैं, यह शिक्षा इससे देते हैं।
आर्यमुनि
अब कर्मयोगी के प्रति राष्ट्ररक्षा का उपाय कथन करते हैं।
हरिशरण सिद्धान्तालंकार
[आयवः प्रियमेधासः] सर्वोत्कृष्ट जीवन
शिव शंकर शर्मा
सर्वे मेधाविन इन्द्रमेव स्तुवन्तीत्यनया शिक्षते।
आर्यमुनि
अथ कर्मयोगिनं प्रति राष्ट्ररक्षोपायः कथ्यते।
