यच्चि॒द्धि त्वा॒ जना॑ इ॒मे नाना॒ हव॑न्त ऊ॒तये॑ । अ॒स्माकं॒ ब्रह्मे॒दमि॑न्द्र भूतु॒ तेऽहा॒ विश्वा॑ च॒ वर्ध॑नम् ॥
yac cid dhi tvā janā ime nānā havanta ūtaye | asmākam brahmedam indra bhūtu te hā viśvā ca vardhanam ||
यत् । चि॒त् । हि । त्वा॒ । जनाः॑ । इ॒मे । नाना॑ । हव॑न्ते । ऊ॒तये॑ । अ॒स्माक॑म् । ब्रह्म॑ । इ॒दम् । इ॒न्द्र॒ । भू॒तु॒ । ते । अहा॑ । विश्वा॑ । च॒ । वर्ध॑नम् ॥ ८.१.३
शिव शंकर शर्मा
ब्रह्म ही स्तुत्य है, इस अर्थ को तृतीया ऋचा से विस्पष्ट करते हैं।
आर्यमुनि
अब निष्कामकर्मों का कर्तव्य कथन करते हैं।
हरिशरण सिद्धान्तालंकार
आर्त भक्त नहीं, ज्ञानी भक्त बनें
शिव शंकर शर्मा
सर्वदा ब्रह्मयश एव वर्धनीयमिति तृतीयया ऋचा स्पष्टयति।
आर्यमुनि
अथ निष्कामकर्मणां विधानम्।
