यदि॒ स्तोमं॒ मम॒ श्रव॑द॒स्माक॒मिन्द्र॒मिन्द॑वः । ति॒रः प॒वित्रं॑ ससृ॒वांस॑ आ॒शवो॒ मन्द॑न्तु तुग्र्या॒वृध॑: ॥
yadi stomam mama śravad asmākam indram indavaḥ | tiraḥ pavitraṁ sasṛvāṁsa āśavo mandantu tugryāvṛdhaḥ ||
यदि॑ । स्तोम॑म् । मम॑ । श्रव॑त् । अ॒स्माक॑म् । इन्द्र॑म् । इन्द॑वः । ति॒रः । प॒वित्र॑म् । स॒सृ॒ऽवांसः॑ । आ॒शवः॑ । मन्द॑न्तु । तु॒ग्र्य॒ऽवृधः॑ ॥ ८.१.१५
शिव शंकर शर्मा
इन्द्र हमारी स्तुति को सुने, यह इससे प्रार्थना होती है।
आर्यमुनि
अब परमात्मोपासकों के कार्यों की सिद्धि कथन करते हैं।
हरिशरण सिद्धान्तालंकार
उपासना व सोमरक्षण -मध्यमःङ्क
शिव शंकर शर्मा
इन्द्रोऽस्माकं स्तुतिं शृणुयादिति प्रार्थ्यते।
आर्यमुनि
अथ परमात्मोपासकानां कार्याणि सिध्यन्तीति वर्ण्यते।
