इन्द्रं॑ स्तवा॒ नृत॑मं॒ यस्य॑ म॒ह्ना वि॑बबा॒धे रो॑च॒ना वि ज्मो अन्ता॑न् । आ यः प॒प्रौ च॑र्षणी॒धृद्वरो॑भि॒: प्र सिन्धु॑भ्यो रिरिचा॒नो म॑हि॒त्वा ॥
indraṁ stavā nṛtamaṁ yasya mahnā vibabādhe rocanā vi jmo antān | ā yaḥ paprau carṣaṇīdhṛd varobhiḥ pra sindhubhyo riricāno mahitvā ||
इन्द्र॑म् । स्त॒व॒ । नृऽत॑मम् । यस्य॑ । म॒ह्ना । वि॒ऽब॒बा॒धे । रो॒च॒ना । वि । ज्मः । अन्ता॑न् । आ । यः । प॒प्रौ । च॒र्षणि॒ऽधृत् । वरः॑ऽभिः । प्र । सिन्धु॑ऽभ्यः । रि॒रि॒चा॒नः । म॒हि॒ऽत्वा ॥ १०.८९.१
ब्रह्ममुनि
इस सूक्त में परमात्मा सब जगत् में व्यापक सबका शासक उपासकों का दुःखनिवारक उपास्य है, इत्यादि विषय दिखलाए हैं।
हरिशरण सिद्धान्तालंकार
नृतम-प्रकाशमय - अनन्त महिम
ब्रह्ममुनि
अत्र सूक्ते परमात्मा सर्वस्मिन् संसारे व्यापकः सर्वस्य शासक उपासकानां दुःखनिवारकश्चेत्येवमादयो विषयाः प्रदर्श्यन्ते।
