त्वया॑ मन्यो स॒रथ॑मारु॒जन्तो॒ हर्ष॑माणासो धृषि॒ता म॑रुत्वः । ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा॑ना अ॒भि प्र य॑न्तु॒ नरो॑ अ॒ग्निरू॑पाः ॥
tvayā manyo saratham ārujanto harṣamāṇāso dhṛṣitā marutvaḥ | tigmeṣava āyudhā saṁśiśānā abhi pra yantu naro agnirūpāḥ ||
त्वया॑ । म॒न्यो॒ इति॑ । स॒ऽरथ॑म् । आ॒ऽरु॒जन्तः॑ । हर्ष॑मानासः । धृ॒षि॒ताः । म॒रु॒त्वः॒ । ति॒ग्मऽइ॑षवः । आयु॑धा । स॒म्ऽशिशा॑नाः । अ॒भि । प्र । य॒न्तु॒ । नरः॑ । अ॒ग्निऽरू॑पाः ॥ १०.८४.१
ब्रह्ममुनि
इस सूक्त में स्वाभिमानरूप आत्मप्रभाव संग्राम में विजय प्राप्त करने के लिये तथा परमात्मा की स्तुति में आत्मबल प्राप्त करना भी विजय के लिए आवश्यक है।
हरिशरण सिद्धान्तालंकार
अग्निरूप नरों का अभिप्रयण
ब्रह्ममुनि
अत्र सूक्ते स्वाभिमानरूप आत्मप्रभावः सङ्ग्रामे विजयं प्रापयति तथा परमात्मस्तवनेन चात्मबलप्रापणमपि विजयाय आवश्यकम्।
