वांछित मन्त्र चुनें

प्र सु व॑ आपो महि॒मान॑मुत्त॒मं का॒रुर्वो॑चाति॒ सद॑ने वि॒वस्व॑तः । प्र स॒प्तस॑प्त त्रे॒धा हि च॑क्र॒मुः प्र सृत्व॑रीणा॒मति॒ सिन्धु॒रोज॑सा ॥

अंग्रेज़ी लिप्यंतरण

pra su va āpo mahimānam uttamaṁ kārur vocāti sadane vivasvataḥ | pra sapta-sapta tredhā hi cakramuḥ pra sṛtvarīṇām ati sindhur ojasā ||

पद पाठ

प्र । सु । वः॒ । आ॒पः॒ । म॒हि॒मान॑म् । उ॒त्ऽत॒मम् । का॒रुः । वो॒चा॒ति॒ । सद॑ने । वि॒वस्व॑तः । प्र । स॒प्तऽस॑प्त । त्रे॒धा । हि । च॒क्र॒मुः । प्र । सृत्व॑रीणाम् । अति॑ । सिन्धुः॑ । ओज॑सा ॥ १०.७५.१

ऋग्वेद » मण्डल:10» सूक्त:75» मन्त्र:1 | अष्टक:8» अध्याय:3» वर्ग:6» मन्त्र:1 | मण्डल:10» अनुवाक:6» मन्त्र:1


0 बार पढ़ा गया

ब्रह्ममुनि

इस सूक्त में तीनों लोकों अप्तत्त्व, पृथिवी पर जलरूप में नदियाँ भिन्न-भिन्न रूपवाली उन से लाभ लेना आदि कहा है।

पदार्थान्वयभाषाः - (आपः) हे आप्त व्याप्त प्रवाहो ! (वः) तुम्हारे (उत्तमं महिमानम्) उत्तम महत्त्व को (कारुः सु प्रवोचाति) स्तुतिकर्त्ता शिल्पी-सीमाओं का कर्त्ता प्रकृष्टरूप से कहता है (विवस्वतः सदने) विशिष्टता से राष्ट्र में विज्ञानस्थल में जो बसता है, ऐसे वैज्ञानिक राजा के राजभवन में या विज्ञानभवन में (सप्त सप्त त्रेधा हि प्रचक्रमुः) सात-सात करके तीनों स्थानों में अर्थात् एक-एक स्थान में सात-सात होकर बहते हैं (प्रसृत्वरीणाम्) उन व्याप्त धाराओं का (सिन्धुः) बहनेवाला (ओजसा-अति) अति वेग से बहता है, वह अप् तत्त्व पदार्थ द्युलोक में सात रङ्ग की सूर्य की किरणें हैं, अन्तरिक्ष में सातरङ्ग की विद्युत् की धाराएँ हैं और पृथिवी पर सात जलधाराएँ हैं ॥१॥
भावार्थभाषाः - अप्तत्त्व पदार्थ तीनों लोकों में सात-सात करके प्रवाहित होते हैं। द्युलोक में सूर्य की किरणें, अन्तरिक्ष में विद्युद्धाराएँ, पृथिवी पर जलप्रवाह, इनका जाननेवाला वैज्ञानिक शिल्पी राजा के राजभवन में या विज्ञानभवन में इनका प्रवचन करे, इनसे लाभ लेने के लिये ॥१॥
0 बार पढ़ा गया

हरिशरण सिद्धान्तालंकार

रेतःकणों की उत्तम महिमा

पदार्थान्वयभाषाः - [१] हे (आपः) = रेतःकणो ! [आपः रेतो भूत्वा० ] (वः) = आपकी (उत्तमं महिमानम्) = उत्कृष्ट महिमा को (कारुः) = कुशलता से कार्यों को करनेवाला स्तोता (प्र सु वोचाति) = प्रकर्षेण उत्तमता से कहता है । ये रेतः कण (विवस्वतः सदने) = उस प्रकाशमय प्रभु के इस शरीररूप गृह में (हि) = निश्चय से (त्रेधा) = तीन प्रकार से (सप्त सप्त) = सात-सात रूपों में होकर (प्रचक्रमुः) = गति करते हैं । ' त्रेधा' का भाव 'भूमि, अन्तरिक्ष व आकाश में' है । अध्यात्म में भूमि 'शरीर' है, अन्तरिक्ष 'हृदय' है तथा आकाश 'मस्तिष्क' है। शरीर में ये आपः - सात धातुओं के रूप में रहते हैं, हृदय देश में पाँच मुख्य प्राणों व मन और बुद्धि के रूप में इनका निवास है तथा मस्तिष्क रूप द्युलोक में 'कर्णाविमौ नासिके चक्षणी मुखम्' इन सात ऋषियों के रूप में इनका कार्य चलता है। [२] वस्तुतः ये (सिन्धुः) = [आपः ] रेत: कण (सृत्वरीणाम्) = बहनेवाली चीजों में (ओजसा) = ओज के दृष्टिकोण से (अति) = [अतीत्य वर्तते] लाँघ करके हैं। सबसे अधिक ओजस्वितावाले हैं, ओजस्वितावाले क्या, ये तो ओज ही ओज हैं। इनके ठीक होने पर शरीर के सब धारक तत्त्व [ धातुएँ] ठीक बने रहते हैं, प्राण, मन व बुद्धि का कार्य ठीक से चलता है तथा कर्ण आदि सात ऋषि अपने कार्य को शक्ति के साथ करनेवाले बनते हैं ।
भावार्थभाषाः - भावार्थ- यह आपः व रेतः कणों का ही माहात्म्य है कि शरीर, मन व मस्तिष्क पूर्ण स्वस्थ बने रहते हैं। तभी यह शरीर सचमुच विवस्वान् [= प्रकाशमय प्रभु] का सदन होता है ।
0 बार पढ़ा गया

ब्रह्ममुनि

अस्मिन् सूक्ते त्रिषु लोकेषु अप्तत्त्वप्रवर्तनं पृथिव्यां तु जलरूपेण नद्यः प्रवहन्ति तासामुपयोगश्च जनैर्ग्राह्य इत्येवमादयो विषया विस्तरेण प्रदर्शिताः सन्ति ता नद्यश्च विविधरूपाः सन्ति। वक्तव्यम्−केचिन्मन्यन्तेऽत्र सूक्ते गङ्गाद्यो नद्यः शरीरस्थनाड्यः सन्ति न पृथिवीपृष्ठा नद्य इति न सम्यक् तासामाधिदैविकक्षेत्रस्य वस्तुतत्वात्। निघण्टुक्रमोऽपि साक्ष्यं यतो ‘नद्यः’ इति कथनानन्तरम् ‘आपः’ पुनः ‘ओषधयः’। यास्काभिमतिश्च नदीकथने पृथिवीस्थानदेवतानां स्तवनप्रसङ्गात् तथा ‘सरस्वती सर इत्युदकनाम सर्तेस्तद्वती’ तथा “सुषोमा सिन्धुर्यदेनामभिप्रसुवन्ति नद्यः। वेदस्य च स्वतः साक्ष्यं गङ्गाद्या नद्यो भवन्ति, तद्यथा (१) “सत्यमित्त्वा॑महे नदि पुरुष्ण्यव॑ देदिशम्। नेमा॑पो अश्वदात॑रः शवि॑ष्ठादस्ति मर्त्यः॑॥” (ऋ० ८।७४।१५) अत्र महे नदि ! परुष्णि ! सम्बोधनं पुनश्च सा हि ‘आपः’ इति नाम्ना सम्बोध्यते। (२) “मध्वा॑ पृञ्चे नद्यः॑ पर्व॑ता गिरयो मधु। मधु परु॑ष्णी शीपा॑ला शमास्ने अ॑स्तु शं हृदे॥” (अथर्व० ६।१२।३) इति सर्पविषचिकित्सायां ‘नद्यः पर्वता गिरयः परुष्णी’ कथनेन नाडी किन्तु नदी हि स्पष्टा। (३) “यत् सिन्धौ यदसि॑क्न्यां यत्स॑मुद्रेषु॑ मरुतः सुबर्हिषः। यत्पर्व॑तेषु भेषजम्॥” (ऋ० ३।३३।१) इत्यत्र “विपाट् या विविधं पटति गच्छति विपाटयति-वा सा, शुतुद्री शु शीघ्रं तुदति, व्यथति सा पयसा जलेन जवेते” [पदार्थे] “अश्वे इव विषेते हासमाने गावेव शुभ्रे रिहाणे पयसा विपाट् शुतुद्री प्रजवेते इव भवेताम्” [अन्वये] “यथा पर्वतानां मध्ये वर्तमाना नद्योऽश्वा इव धावन्ति गाव इव शब्दायन्ते” [भावार्थे] अत्र दयानन्दमते विपाट् शुतुद्री नद्यौ स्तः, इति स्पष्टम्। एवं तर्हि गङ्गादिनामभिर्वेदे न भवितव्यं तस्येश्वरज्ञानात्मकत्वात् सृष्टेरारम्भे प्रकाश्यमानत्वात् ? उच्यते मनुष्यरचितानां वस्तूनां रथादीनि नामानि यथा वेदे सन्ति तथा गङ्गादिनामान्यपि निरवद्यानि-अशङ्कनीयानि, इदं कथं मनुष्यरचितानां वस्तूनां नामानि तु स्युः स्वरचितानामीश्वररचितानां नामानि तु स्युरिति मतिर्न युक्ता। ननु गङ्गाद्या नद्यस्तु खल्वार्यावर्ते [भारते] सन्ति तेन-आर्यावर्तस्य देशस्येतिहासो भविष्यति वेदे। उच्यते-आर्यावर्ते देशे गङ्गाद्याः प्रवहन्तीति न वाच्यं किन्तु पृथिवीपृष्ठे प्रवहन्तीति वक्तव्यम्, तदा पृथिवीपृष्ठे या या नदी यथा यथा गुणयुक्ता दृष्टा पुरातनैर्वैदिकैर्ऋषिभिस्तत्तद्गुणवशात् तस्यास्तस्या-स्तत्तन्नामकरणं कृतं वेदाद् दृष्ट्वा, मनुना खलूक्तं यथा “सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक्। वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे॥” (मनु० १।२१) यास्केन गुणा दर्शिता हि “गङ्गा गमनात्” इति यौगिकनामानि न रूढिनामानि पुनश्च खागोलिकेन भौगोलिकेन चेतिहासेन वेदेऽवश्यं भवितव्यमेव। यथा ‘सूर्यः-चन्द्रमाः’ इत्येवमादीनां खागोलिकानां पदार्थानां वर्णनं वेदे तथा गङ्गादीनां भौगोलिकानां वस्तूनामपि वर्णनेन भवितव्यम्। अपि तु नदीनां वैदिकनाम्नां क्षेत्रं केवलं पृथिवी हि नास्ति किन्तु पृथिव्यन्तरिक्षद्युलोकास्त्रयोऽपि क्षेत्राणि सन्ति, एतत्सूक्तस्य प्रथममन्त्रे ह्युक्तमस्ति “प्र सप्त स॑प्त त्रेधा हि च॑क्रमुः” (ऋ० १०।७५।१) पृथिवीस्थानेषु नद्योऽपि देवतात्वस्य भागिन्यः सन्ति, कस्याश्चिज्जलपाने भेषजं कस्याञ्चित् स्नाने महौषधं तथाऽन्नोत्पादनाय क्षेत्रसेचनाय तु सर्वा नद्य उपकारिण्यः सन्ति ता एताः स्तोतव्याः प्रशंसनीया उपयोज्याः।

पदार्थान्वयभाषाः - (आपः) हे आप्ता व्याप्ता प्रवाहाः ! (वः) युष्माकम् (उत्तमं महिमानम्) उत्तमं महत्त्वं (कारुः सु प्रवोचाति) स्तुतिकर्त्ता शिल्पी “स्तुत्यानां शिल्पकर्मणां कर्त्ता” [ऋ० १।८३।६ दयानन्दः] सीम्नां कर्त्ता “स्तोमानां कर्त्ता” [निरु० ६।६] “स्तोमा आसन् प्रतिधमः” [ऋ० १०।८५।८] प्रवक्ति प्रब्रवीति (विवस्वतः सदने) यो विशिष्टतया राष्ट्रे विज्ञानस्थले वसति तस्य राज्ञो वैज्ञानिकस्य राजभवने विज्ञानभवने वा (सप्त सप्त त्रेधा हि प्रचक्रमुः) सप्त सप्त त्रिषु स्थानेषु, एकैकस्थाने सप्त सप्त भूत्वा प्रक्रामन्ति प्रवहन्ति, ‘आपस्त्रिषु स्थानेषु सन्ति’ पृथिव्यामन्तरिक्षे दिवि च, यथोक्तम् “द्यौर्वा अपां सदनम्” [श० ७।५।२।५६] “अन्तरिक्षं वा अपां सधस्थम्” [श० ७।५।२।५७] “इयं पृथिवी वा अपामयनमस्यां ह्यापो वहन्ति” [श० ७।५।२।५०] दिवि कथमित्युच्यते “अमूर्या उपसूर्ये याभिर्वा सूर्यः सह” [अथर्व० १।४।२] ता आपः अप्तत्त्वपदार्थाः, दिवि सप्तरङ्गवन्तः सूर्यरश्मयः, अन्तरिक्षे सप्तरङ्गा विद्युत्तरङ्गाः, पृथिव्यां सप्त जलप्रवाहाः। (प्रसृत्वरीणाम्) तासामपां व्याप्तधाराणां (सिन्धुः) स्यन्दमानः प्रवाहः (ओजसा-अति) बलेन वेगेन अतिवहति ॥१॥
0 बार पढ़ा गया

डॉ. तुलसी राम

पदार्थान्वयभाषाः - O fluent streams of water, energy and light, your best and highest grandeur and quality in every region of the master of earth, skies and light (Vivasvan), the scholar scientist devotee adores, describes and celebrates. Seven streams flow three ways in every one of the three regions, and in all the flowing streams the one common current flows on with its own innate energy and power.