वांछित मन्त्र चुनें

अ॒ग्निं म॑न्ये पि॒तर॑म॒ग्निमा॒पिम॒ग्निं भ्रात॑रं॒ सद॒मित्सखा॑यम् । अ॒ग्नेरनी॑कं बृह॒तः स॑पर्यं दि॒वि शु॒क्रं य॑ज॒तं सूर्य॑स्य ॥

अंग्रेज़ी लिप्यंतरण

agnim manye pitaram agnim āpim agnim bhrātaraṁ sadam it sakhāyam | agner anīkam bṛhataḥ saparyaṁ divi śukraṁ yajataṁ sūryasya ||

मन्त्र उच्चारण
पद पाठ

अ॒ग्निम् । म॒न्ये॒ । पि॒तर॑म् । अ॒ग्निम् । आ॒पिम् । अ॒ग्निम् । भ्रात॑रम् । सद॑म् । इत् । सखा॑यम् । अ॒ग्नेः । अनी॑कम् । बृ॒ह॒तः । स॒प॒र्य॒न् । दि॒वि । शु॒क्रम् । य॒ज॒तम् । सूर्य॑स्य ॥ १०.७.३

ऋग्वेद » मण्डल:10» सूक्त:7» मन्त्र:3 | अष्टक:7» अध्याय:6» वर्ग:2» मन्त्र:3 | मण्डल:10» अनुवाक:1» मन्त्र:3


0 बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्निं पितरं सदम्-इत्-मन्ये) अग्रणायक परमात्मा को पिता मानूँ-पिता रूप में अपनाऊँ (अग्निम्-आपिम्) अग्रणायक परमात्मा को प्राप्त सम्बन्धी मानूँ-अपनाऊँ (अग्निं भ्रातरम्) अग्रणायक परमात्मा को माता मानूँ-अपनाऊँ (सखायम्) मित्ररूप में मानूँ-अपनाऊँ (दिवि बृहतः सूर्यस्य-अग्नेः) द्युलोक में स्थित महान् सूर्यरूप अग्नि के (अनीकं शुक्रं यजतं सपर्यम्) सेनानी जैसे नायक, संस्थापक, प्रकाशक, सङ्गमनीय परमात्मा की उपासना करूँ ॥३॥
भावार्थभाषाः - अग्रणायक परमात्मा हमारा पिता माता सखा सम्बन्धी है। उसे ऐसा ही मानना चाहिये-अपने अन्दर भावित करना चाहिये तथा संसार के महान् अग्निपिण्ड सूर्य का भी जो नायक तथा समस्त जगत् को प्रकाशित करनेवाला है, उस परमात्मा को उपकारक जानना और मानना चाहिये ॥३॥
0 बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्निं पितरं सदम्-इत्-मन्ये) अग्रणायकं परमात्मानं सदैव पितरं मन्ये-भावयामि (अग्निम्-आपिम्) अग्रणायकपरमात्मानं सम्बन्धेन प्राप्तं सम्बन्धिनं सदैव भावयामि (अग्निं भ्रातरम्) अग्रणायकपरमात्मानं भ्रातरं भावयामि (सखायम्) तथा मित्रं भावयामि (दिवि बृहतः सूर्यस्य-अग्नेः) द्युलोके स्थितस्य महतः सूर्यरूपस्याग्नेः (अनीकं शुक्रं यजतं सपर्यम्) सेनानीरिव नायकं संस्थापकम् “सेनाया वै सेनानीरनीकम्” [श० ५।३।१।१] प्रकाशकं यजनीयं सङ्गमनीयं परमात्मानं परिचरेयम्-स्तुयाम् “सपर्यति परिचरणकर्मा” [निघ० ३।५] ॥३॥
0 बार पढ़ा गया

डॉ. तुलसी राम

पदार्थान्वयभाषाः - I always accept and adore Agni as father, Agni as my own closest relative, Agni as brother and as unfailing friend. I worship the great Agni’s solar presence in the heaven of light, adorable, refulgent, worthy of love and service.