अबु॑ध्रमु॒ त्य इन्द्र॑वन्तो अ॒ग्नयो॒ ज्योति॒र्भर॑न्त उ॒षसो॒ व्यु॑ष्टिषु । म॒ही द्यावा॑पृथि॒वी चे॑तता॒मपो॒ऽद्या दे॒वाना॒मव॒ आ वृ॑णीमहे ॥
abudhram u tya indravanto agnayo jyotir bharanta uṣaso vyuṣṭiṣu | mahī dyāvāpṛthivī cetatām apo dyā devānām ava ā vṛṇīmahe ||
अबु॑ध्रम् । ऊँ॒ इति॑ । त्ये । इन्द्र॑ऽवन्तः । अ॒ग्नयः॑ । ज्योतिः॑ । भर॑न्तः । उ॒षसः॑ । विऽउ॑ष्टिषु । म॒ही इति॑ । द्यावा॑पृथि॒वी इति॑ । चे॒त॒ता॒म् । अपः॑ । अ॒द्य । दे॒वाना॑म् । अवः॑ । आ । वृ॒णी॒म॒हे॒ ॥ १०.३५.१
ब्रह्ममुनि
इस सूक्त में सूर्य, उषा, द्युलोक, पृथिवीलोकों से उपयोग लेना, योगी विद्वानों से योगशिक्षा और पारिवारिक जनों का परस्पर वर्तना दिखलाया है।
हरिशरण सिद्धान्तालंकार
इन्द्रवान् अग्नियों का उद्बोधन
ब्रह्ममुनि
अस्मिन् सूक्ते सूर्योषोद्युलोकपृथिवीलोकपदार्थेभ्य उपयोगग्रहणम्, विदुषां योगिनां सङ्गत्या योगशिक्षणम्, पारिवारिकजनानां पारस्परिकवर्तनं च वर्ण्यते।
