अप॑श्यं त्वा॒ मन॑सा॒ चेकि॑तानं॒ तप॑सो जा॒तं तप॑सो॒ विभू॑तम् । इ॒ह प्र॒जामि॒ह र॒यिं ररा॑ण॒: प्र जा॑यस्व प्र॒जया॑ पुत्रकाम ॥
apaśyaṁ tvā manasā cekitānaṁ tapaso jātaṁ tapaso vibhūtam | iha prajām iha rayiṁ rarāṇaḥ pra jāyasva prajayā putrakāma ||
अप॑श्यम् । त्वा॒ । मन॑सा । चेकि॑तानम् । तप॑सः । जा॒तम् । तप॑सः । विऽभू॑तम् । इ॒ह । प्र॒ऽजाम् । इ॒ह । र॒यिम् । ररा॑णः । प्र । जा॒य॒स्व॒ । प्र॒ऽजया॑ । पु॒त्र॒ऽका॒म॒ ॥ १०.१८३.१
ब्रह्ममुनि
इस सूक्त में स्वयंवरविवाह का वर्णन है, विवाह का प्रस्ताव वधू की ओर से होना चाहिए, उसका व्ययभार पति को अपने ऊपर लेना होगा, गृहस्थधर्म ऋतु पर करना इत्यादि विषय हैं।
हरिशरण सिद्धान्तालंकार
यजमान पत्नी का कथन
ब्रह्ममुनि
अत्र सूक्ते स्वयंवरविवाहस्य वर्णनमस्ति तत्र प्रथमप्रस्तावो विवाहस्य वध्वा कर्तव्यः, पत्न्याः सर्वव्ययभारः पत्या वोढव्यः, ऋतुकाले गृहस्थधर्मः सेवनीय इत्यादयो विषयाः सन्ति।
