अ॒ग्निर्दे॒वो दे॒वाना॑मभवत्पु॒रोहि॑तो॒ऽग्निं म॑नु॒ष्या॒३॒॑ ऋष॑य॒: समी॑धिरे । अ॒ग्निं म॒हो धन॑साताव॒हं हु॑वे मृळी॒कं धन॑सातये ॥
agnir devo devānām abhavat purohito gnim manuṣyā ṛṣayaḥ sam īdhire | agnim maho dhanasātāv ahaṁ huve mṛḻīkaṁ dhanasātaye ||
अ॒ग्निः । दे॒वः । दे॒वाना॑म् । अ॒भ॒व॒त् । पु॒रःऽहि॑तः । अ॒ग्निम् । म॒नु॒ष्याः॑ । ऋष॑यः । सम् । ई॒धि॒रे॒ । अ॒ग्निम् । म॒हः । धन॑ऽसातौ । अ॒हम् । हु॒वे॒ । मृ॒ळी॒कम् । धन॑ऽसातये ॥ १०.१५०.४
ब्रह्ममुनि
हरिशरण सिद्धान्तालंकार
देवों का पुरोहित
