सु॒ष्वा॒णास॑ इन्द्र स्तु॒मसि॑ त्वा सस॒वांस॑श्च तुविनृम्ण॒ वाज॑म् । आ नो॑ भर सुवि॒तं यस्य॑ चा॒कन्त्मना॒ तना॑ सनुयाम॒ त्वोता॑: ॥
suṣvāṇāsa indra stumasi tvā sasavāṁsaś ca tuvinṛmṇa vājam | ā no bhara suvitaṁ yasya cākan tmanā tanā sanuyāma tvotāḥ ||
सु॒स्वा॒नासः॑ । इ॒न्द्र॒ । स्तु॒मसि॑ । त्वा॒ । स॒स॒ऽवांसः॑ । च॒ । तु॒वि॒ऽनृ॒म्ण॒ । वाज॑म् । आ । नः॒ । भ॒र॒ । सु॒वि॒तम् । यस्य॑ । चा॒कन् । त्मना॑ । तना॑ । स॒नु॒या॒म॒ । त्वाऽऊ॑ताः ॥ १०.१४८.१
ब्रह्ममुनि
इस सूक्त में जो परमात्मा की स्तुति करता है, वह उसका प्रिय हो जाता है, मोक्षभागी बन जाता है, वह उसकी सारी कामनाएँ पूरी करता है इत्यादि विषय हैं।
हरिशरण सिद्धान्तालंकार
सोमरक्षण व शक्ति का भरण
ब्रह्ममुनि
अत्र सूक्ते परमात्मानं यः स्तौति स परमात्मनः प्रियो भवति मोक्षस्य भागी च भवति तस्य याः कामा भवन्ति परमात्मा ताः पूरयतीत्येवमादयो विषयाः सन्ति।
