श्रत्ते॑ दधामि प्रथ॒माय॑ म॒न्यवेऽह॒न्यद्वृ॒त्रं नर्यं॑ वि॒वेर॒पः । उ॒भे यत्त्वा॒ भव॑तो॒ रोद॑सी॒ अनु॒ रेज॑ते॒ शुष्मा॑त्पृथि॒वी चि॑दद्रिवः ॥
śrat te dadhāmi prathamāya manyave han yad vṛtraṁ naryaṁ viver apaḥ | ubhe yat tvā bhavato rodasī anu rejate śuṣmāt pṛthivī cid adrivaḥ ||
श्रत् । ते॒ । द॒धा॒मि॒ । प्र॒थ॒माय॑ । म॒न्यवे॑ । अह॑न् । यत् । वृ॒त्रम् । नर्य॑म् । वि॒वेः । अ॒पः । उ॒भे इति॑ । यत् । त्वा॒ । भव॑तः । रोद॑सी॒ इति॑ । अनु॑ । रेज॑ते । शुष्मा॑त् । पृ॒थि॒वी । चि॒त् । अ॒द्रि॒ऽवः॒ ॥ १०.१४७.१
ब्रह्ममुनि
इस सूक्त में परमात्मा द्युलोक पृथिवीलोक को वश में करता है, अन्तरिक्ष भी उसके अधीन काँपता है, विमानों विद्युत्तरङ्गों का आधार बना है, मेघ को वर्षाता है अन्नोपत्ति के लिए इत्यादि विषय हैं।
हरिशरण सिद्धान्तालंकार
प्रथम मन्यु के लिये श्रद्धा श्
ब्रह्ममुनि
अत्र सूक्ते परमात्मा द्यावापृथिव्यावधिकरोति तथान्तरिक्षं च तस्य शासने कम्पते चलायमानो भवति विमानानां विद्युत्तरङ्गानामाधार-भूतमन्तरिक्षं भवति मेघं वर्षत्यन्नोत्पत्तय इत्येवमादयो विषयाः सन्ति।
