अग्ने॒ अच्छा॑ वदे॒ह न॑: प्र॒त्यङ्न॑: सु॒मना॑ भव । प्र नो॑ यच्छ विशस्पते धन॒दा अ॑सि न॒स्त्वम् ॥
agne acchā vadeha naḥ pratyaṅ naḥ sumanā bhava | pra no yaccha viśas pate dhanadā asi nas tvam ||
अग्ने॑ । अच्छ॑ । व॒द॒ । इ॒ह । नः॒ । प्र॒त्यङ् । नः॒ । सु॒ऽमनाः॑ । भ॒व॒ । प्र । नः॒ । य॒च्छ॒ । वि॒शः॒ । प॒ते॒ । ध॒न॒ऽदाः । अ॒सि॒ । नः॒ । त्वम् ॥ १०.१४१.१
ब्रह्ममुनि
इस सूक्त में प्रजाजन सभाध्यक्ष, सेनाध्यक्ष व वैश्य को आमन्त्रित करें, परस्पर विचारें कि न्यायाधीश न्याय दे, धनाधिकारी धन दे, विद्वान् ज्ञान दे इत्यादि विषय हैं।
हरिशरण सिद्धान्तालंकार
'उत्तम मन' व 'धन'
ब्रह्ममुनि
अत्र सूक्ते प्रजाजनाः सभासेनाध्यक्षौ वैश्यं चामन्त्र्य परस्परं राष्ट्ररक्षणस्योपायान् चिन्त्येरन् न्यायाधीशो न्यायं प्रयच्छेद्धनाध्यक्षो धनं दद्यात्, विद्वान् विद्यां चेत्यादयो विषयाः सन्ति।
