प्रो ष्व॑स्मै पुरोर॒थमिन्द्रा॑य शू॒षम॑र्चत । अ॒भीके॑ चिदु लोक॒कृत्सं॒गे स॒मत्सु॑ वृत्र॒हास्माकं॑ बोधि चोदि॒ता नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥
pro ṣv asmai puroratham indrāya śūṣam arcata | abhīke cid u lokakṛt saṁge samatsu vṛtrahāsmākam bodhi coditā nabhantām anyakeṣāṁ jyākā adhi dhanvasu ||
प्रो इति॑ । सु । अ॒स्मै॒ । पु॒रः॒ऽर॒थम् । इन्द्रा॑य । शू॒षम् । अ॒र्च॒त॒ । अ॒भीके॑ । चि॒त् । ऊँ॒ इति॑ । लो॒क॒ऽकृत् । स॒म्ऽगे । स॒मत्ऽसु॑ । वृ॒त्र॒ऽहा । अ॒स्माक॑म् । बो॒धि॒ । चो॒दि॒ता । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥ १०.१३३.१
ब्रह्ममुनि
इस सूक्त में राजा के रथ के आगे सैनिक चलें, आक्रमणकारी शत्रु को राजा तुरन्त मार दे, प्रजा भी राजा की सहायता करे, आदि विषय हैं।
हरिशरण सिद्धान्तालंकार
अग्रगामी - रथ और शत्रु-शोषक बल
ब्रह्ममुनि
अत्र सूक्ते राज्ञो रथस्याग्रे सैनिका गच्छन्तु आक्रमणकारिणः शत्रून् सद्यो मारयेत् प्रजाजनास्तस्य राज्ञः साहाय्यं दद्युरित्येवमादयो विषयाः सन्ति।
