यो य॒ज्ञो वि॒श्वत॒स्तन्तु॑भिस्त॒त एक॑शतं देवक॒र्मेभि॒राय॑तः । इ॒मे व॑यन्ति पि॒तरो॒ य आ॑य॒युः प्र व॒याप॑ व॒येत्या॑सते त॒ते ॥
yo yajño viśvatas tantubhis tata ekaśataṁ devakarmebhir āyataḥ | ime vayanti pitaro ya āyayuḥ pra vayāpa vayety āsate tate ||
यः । य॒ज्ञः । वि॒श्वतः॑ । तन्तु॑ऽभिः । त॒तः । एक॑ऽशतम् । दे॒व॒ऽक॒र्मेभिः॑ । आऽय॑तः । इ॒मे । व॒य॒न्ति॒ । पि॒तरः॑ । ये । आ॒ऽय॒युः । प्र । व॒य॒ । अप॑ । व॒य॒ । इति॑ । आ॒स॒ते॒ । त॒ते ॥ १०.१३०.१
ब्रह्ममुनि
इस सूक्त में मुक्तों का ब्राह्मशरीर ब्राह्म सौ वर्षों का होता है, संसार में भौतिक शरीर लोकप्रसिद्ध सौ वर्षों का होता है, इत्यादि विषय कहे हैं।
हरिशरण सिद्धान्तालंकार
सौ वर्षों के दीर्घ यज्ञ का पट रूप में वयन
ब्रह्ममुनि
सूक्तेऽस्मिन् ब्राह्मशरीरं मुक्तानां मोक्षे ब्राह्मशतवार्षिकं भवति संसारे च भौतिकं शरीरं शतवार्षिकं लौकिकमित्येवमादयो विषयाः प्रोक्ताः सन्ति।
