अ॒यं वे॒नश्चो॑दय॒त्पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑ । इ॒मम॒पां सं॑ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहन्ति ॥
ayaṁ venaś codayat pṛśnigarbhā jyotirjarāyū rajaso vimāne | imam apāṁ saṁgame sūryasya śiśuṁ na viprā matibhī rihanti ||
अ॒यम् । वे॒नः । चो॒द॒य॒त् । पृश्नि॑ऽगर्भाः । ज्योतिः॑ऽजरायुः । रज॑सः । वि॒ऽमाने॑ । इ॒मम् । अ॒पाम् । स॒म्ऽग॒मे । सूर्य॑स्य । शिशु॑म् । न । विप्राः॑ । म॒तिऽभिः॑ । रि॒ह॒न्ति॒ ॥ १०.१२३.१
ब्रह्ममुनि
इस सूक्त में परमात्मा ब्रह्माण्ड का रक्षक, लोगों का चालक, वेद का रचयिता, वेद शाश्वत है, परमात्मा जीवात्मा के हृदयघर में मित्र की भाँति प्रवेश करता है इत्यादि विषय हैं।
हरिशरण सिद्धान्तालंकार
आपः - सूर्य
ब्रह्ममुनि
अस्मिन् सूक्ते परमात्मा ब्रह्माण्डस्य रक्षको लोकानां चालकः वेदज्ञानस्य दाता यश्च वेदः शाश्वतिकः, परमेश्वरो जीवात्मनो हृदयगृहे मित्रवत् प्रवेशं करोतीत्येवमादयो विषयाः सन्ति।
