तदिदा॑स॒ भुव॑नेषु॒ ज्येष्ठं॒ यतो॑ ज॒ज्ञ उ॒ग्रस्त्वे॒षनृ॑म्णः । स॒द्यो ज॑ज्ञा॒नो नि रि॑णाति॒ शत्रू॒ननु॒ यं विश्वे॒ मद॒न्त्यूमा॑: ॥
tad id āsa bhuvaneṣu jyeṣṭhaṁ yato jajña ugras tveṣanṛmṇaḥ | sadyo jajñāno ni riṇāti śatrūn anu yaṁ viśve madanty ūmāḥ ||
तत् । इत् । आ॒स॒ । भुव॑नेषु । ज्येष्ठ॑म् । यतः॑ । ज॒ज्ञे । उ॒ग्रः । त्वे॒षऽनृ॑म्णः । स॒द्यः । ज॒ज्ञा॒नः । नि । रि॒णा॒ति॒ । शत्रू॑न् । अनु॑ । यम् । विश्वे॑ । मद॑न्ति । ऊमाः॑ ॥ १०.१२०.१
ब्रह्ममुनि
इस सूक्त में परमात्मा ने संसार रचा, प्रकाशक-प्रकाश्य पिण्ड रखे, जड़-जङ्गम पदार्थ भी रचे, उसके रचे वेद से ज्ञान ग्रहण कर ब्रह्मानन्द और सांसारिक सुख को भोगते हैं जन।
हरिशरण सिद्धान्तालंकार
ज्येष्ठ ब्रह्म
ब्रह्ममुनि
अत्र सूक्ते परमात्मना संसारो रचितस्तत्र प्रकाशकप्राकाश्यपिण्डानि धृतानि जडजङ्गमपदार्थाः सूचिताः तद्रचितेन वेदेन च ज्ञानं गृहीत्वा ब्रह्मानन्दं सांसारिकसुखं च भुञ्जते जनाः।
